Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1870

1875 Mantra
Devata- संग्रामशिषः Rishi- पायुर्भारद्वाजः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
म꣡र्मा꣢णि ते꣣ व꣡र्म꣢णा च्छादयामि꣣ सो꣡म꣢स्त्वा꣣ रा꣢जा꣣मृ꣢ते꣣ना꣡नु꣢ वस्ताम् । उ꣣रो꣡र्वरी꣢꣯यो꣣ व꣡रु꣢णस्ते कृणोतु꣣ ज꣡य꣢न्तं꣣ त्वा꣡नु꣢ दे꣣वा꣡ म꣢दन्तु ॥१८७०॥

म꣡र्मा꣢꣯णि । ते꣣ । व꣡र्म꣢꣯णा । छा꣣दयामि । सो꣡मः꣢꣯ । त्वा । रा꣡जा꣢꣯ । अ꣣मृ꣡ते꣢न । अ꣣ । मृ꣡ते꣢꣯न । अ꣡नु꣢꣯ । व꣣स्ताम् । उ꣣रोः꣢ । व꣡री꣢꣯यः । व꣡रु꣢꣯णः । ते꣣ । कृणोतु । ज꣡य꣢꣯न्तम् । त्वा꣣ । अ꣡नु꣢꣯ । दे꣣वाः꣢ । म꣣दन्तु ॥१८७०॥

Mantra without Swara
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अ । मृतेन । अनु । वस्ताम् । उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ॥१८७०॥

Samveda - Mantra Number : 1870
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अध्यात्मपथिक जीवात्मन् ! (ते) तव (मर्माणि) मर्मस्थानानि मनोबुद्धिचक्षुराद्यानि (वर्मणा) ब्रह्मरूपेण कवचेन। [वक्ष्यते च—‘ब्रह्म वर्म ममान्तरम्’ इति साम० १८७२।] (छादयामि) संवृणोमि। (राजा) विश्वसम्राट् (सोमः) जगदीश्वरः (त्वा) त्वाम् (अमृतेन) आनन्दरसेन (अनु वस्ताम्) अन्वाच्छादयतु। (वरुणः) दोषनिवारको वरणीयो विद्वान् आचार्यः (ते) तुभ्यम् (उरोः) विस्तीर्णस्य अध्यात्मज्ञानस्य (वरीयः) अतिशयेन वरं तत्त्वम् (कृणोतु) करोतु। (जयन्तं त्वा) अध्यात्मक्षेत्रे बाह्यक्षेत्रे च विजयं लभमानं त्वाम् (अनु) अनुसृत्य (देवाः) मनःप्राणादयोऽपि (मदन्तु) हृष्यन्तु ॥१॥२
Essence
योगमार्गे पदं दधानो जनो ब्रह्मकवचेन रक्षितो भूत्वा गुरुजनानां मार्गनिर्देशं प्राप्य ब्रह्मानन्दमनुभवन् मनोबुद्धिप्राणादिभिः सह विजयतेतमाम् ॥१॥
Subject
तत्रादौ विजयाभिलाषिणमाशिषा योजयति।