Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 187

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣मा꣡स्त꣢ इन्द्र꣣ पृ꣡श्न꣢यो घृ꣣तं꣡ दु꣢हत आ꣣शि꣡र꣢म् । ए꣣ना꣢मृ꣣त꣡स्य पि꣣प्यु꣡षीः꣢ ॥१८७॥

इ꣣माः꣢ । ते꣣ । इन्द्र । पृ꣡श्न꣢꣯यः । घृ꣣त꣢म् । दु꣣हते । आशि꣡र꣢म् । आ꣣ । शिर꣢꣯म् । ए꣣ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣡षीः꣢ ॥१८७॥

Mantra without Swara
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ॥

इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आशिरम् । आ । शिरम् । एनाम् । ऋतस्य । पिप्युषीः ॥१८७॥

Samveda - Mantra Number : 187
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—यज्ञपरः। हे (इन्द्र) गोपालक (यजमान) ! यजमानो वै स्वे यज्ञ इन्द्रः। श० ८।५।३।८। (ऋतस्य) यज्ञस्य। ऋतस्य योगे यज्ञस्य योगे इति निरुक्तम्। ६।२२। (पिप्युषीः) पिप्युष्यः वर्धयित्र्यः। ओप्यायी वृद्धौ धातोर्लिटः क्वसौ लिड्यङोश्च।’ अ० ६।१।२९ इति प्यायः पीभावे स्त्रियरूपम्। (इमाः) एताः (ते) तव (पृश्नयः२) नानावर्णा धर्मदुहो गावः (घृतम्) आज्यम्, (एनाम् आशिरम्३) एतत् पयश्च। (आशीः) पयोनाम इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दु॒दु॒ह्रे ॥ ऋ० ८।६९।६ इति प्रामाण्यात्। आशीराश्रयणाद् वा आश्रपणाद् वा इति निरुक्तम्। ६।८। (दुहते) प्रयच्छन्ति ॥४ अथ द्वितीयः—अध्यात्मपरः। हे (इन्द्र) जीवात्मन् ! (ऋतस्य) सत्यस्य (पिप्युषीः) पाययित्र्यः। पीङ् पाने धातोर्लिटि क्वसौ रूपम्। (इमाः) एताः (पृश्नयः) वेदमातरः (ते) तुभ्यम् (घृतम्) तेजोरूपम् आज्यम्, ब्रह्मवर्चसमित्यर्थः। तेजो वै घृतम्। तै० सं० २।२।९।६। (एनाम् आशिरम्) एतत् परिपक्वम् आयुष्प्राणप्रजापशुकीर्तिविद्यादिरूपं दुग्धं च (दुहते) प्रयच्छन्ति। किं तावद् वेदमातॄणां दुग्धमिति स्वयमेव वर्णयति श्रुतिः—“स्तु॒ता मया॑ वर॒दा वेद॑मा॒ता प्रचो॑दयन्तां पावमा॒नी द्वि॒जाना॑म्। आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्। मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम्।” अथ० १९।७१ इति ॥ अथ तृतीयः—वृष्टिपरः। हे (इन्द्र) परमात्मन् ! (इमाः) एताः (ते) तव, त्वद्रचिता इत्यर्थः (पृश्नयः) नानावर्णा मेघमालाः (आशिरम्) परिपक्वं, सूर्यतापेन वाष्पीभूतम्। अत्र आङ्पूर्वः श्रीञ् पाके धातुर्बोध्यः। (घृतम्) उदकम्। घृतम् इत्युदकनाम, जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (दुहते) वर्षन्ति, किञ्च (एनाम्) एतां भूमिम् (ऋतस्य) उदकस्य। ऋतमित्युदकनाम। निघं० १।१२। (पिप्युषीः) पाययित्र्यः, भवन्तीति शेषः ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
यथा यजमानस्य गावो यज्ञार्थं घृतं पयश्च दुहन्ति, मेघमालाः कृष्याद्यर्थं वृष्टिजलरूपं पयो दुहन्ति, तथैव वेदमातारो जीवाय ब्रह्मवर्चसरूपं घृतम् आयुष्प्राणादिरूपं पयश्च प्रयच्छन्ति ॥३॥
Subject
अथेन्द्रस्य पृश्नयः किं कुर्वन्तीत्याह।
Footnote
१. ऋ० ८।६।१९। २. पृश्नयो गावः—इति भ०। प्राष्टवर्णा गावः—इति सा०। स्तुतयः—इति वि०। ३. सोममिश्रं दधि आशिरम्—इति वि, भ०। एनाम् आशिरम् आश्रयणद्रव्यं पयः—इति सा०। ४. एनां भूमिम् ऋतस्य ऋतेन उदकेन पिप्युषीः पूरयन्त्यः यज्ञसाधनद्वारेण वृष्टिम् उत्पादयन्त्यः—इति भा०।