Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1869

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ इन्द्रः Chhand- विराड् जगती Swara- निषादः
Mantra with Swara
इ꣡न्द्र꣢स्य बा꣣हू꣡ स्थवि꣢꣯रौ꣣ यु꣡वा꣢नावनाधृ꣣ष्यौ꣡ सु꣢प्रती꣣का꣡व꣢स꣣ह्यौ꣢ । तौ꣡ यु꣢ञ्जीत प्रथ꣣मौ꣢꣫ योग꣣ आ꣡ग꣢ते꣣ या꣡भ्यां꣢ जि꣣त꣡मसु꣢꣯राणा꣣ꣳ स꣡हो꣢ म꣣ह꣢त् ॥१८६९॥

इ꣡न्द्र꣢꣯स्य । बा꣣हू꣡इति꣢ । स्थ꣡वि꣢꣯रौ । स्थ । वि꣢रौ । यु꣡वा꣢꣯नौ । अ꣣नाधृष्यौ꣢ । अ꣣न् । आधृष्यौ꣢ । सु꣣प्रतीकौ꣢ । सु꣢ । प्रतीकौ꣣ । अ꣣सह्यौ । अ꣣ । स꣢ह्यौ । तौ । यु꣢ञ्जीत । प्रथमौ꣢ । यो꣡गे꣢꣯ । आ꣡ग꣢꣯ते । आ । ग꣣ते । या꣡भ्या꣢꣯म् । जि꣣त꣢म् । अ꣡सु꣢꣯राणाम् । अ । सु꣣राणाम् । स꣡हः꣢꣯ । म꣣ह꣢त् ॥१८६९॥

Mantra without Swara
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ । तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणाꣳ सहो महत् ॥

इन्द्रस्य । बाहूइति । स्थविरौ । स्थ । विरौ । युवानौ । अनाधृष्यौ । अन् । आधृष्यौ । सुप्रतीकौ । सु । प्रतीकौ । असह्यौ । अ । सह्यौ । तौ । युञ्जीत । प्रथमौ । योगे । आगते । आ । गते । याभ्याम् । जितम् । असुराणाम् । अ । सुराणाम् । सहः । महत् ॥१८६९॥

Samveda - Mantra Number : 1869
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रस्य) सेनापतेरिव जीवात्मनः (बाहू) प्राणापानरूपौ भुजौ (स्थविरौ) स्थिरौ। [स्था धातोः ‘अजिरशिशिर०’ उ० १।५३। इति किरच् प्रत्ययान्तो निपातः। धातोर्वुग् ह्रस्वत्वं च।] (युवानौ) तरुणौ, (अनाधृष्यौ) मानसैर्दैहिकैश्च मलैः अप्रधृष्यौ, (सुप्रतीकौ) शत्रुं प्रति सुप्रत्यञ्चनौ, (असह्यौ) रोगादिभिः सोढुमशक्यौ स्तः। (योगे आगते) अष्टाङ्गयोगे उपस्थिते सति, योगसाधकः (तौ) प्राणापानरूपौ भुजौ (युञ्जीत) प्रयोजयेत्, (याभ्याम्) प्राणापानरूपाभ्यां बाहुभ्याम् (असुराणाम्) आधिव्याधिरूपाणां दैत्यानाम् (महत् सहः) महद् बलम् (जितम्) परास्तं भवति ॥३॥ अत्रोपमेययोः प्राणापानयोर्निगरणपूर्वकमुपमानभूतयोर्बाह्वोर्वर्णनादति- शयोक्तिरलङ्कारः। ‘स्थविरौ वृद्धौ अपि युवानौ’ इति विरोधो ध्वन्यते, व्याख्यातदिशा च परिहारः ॥३॥
Essence
योगाभ्यासे पूरककुम्भकादिना प्राणायामेनेन्द्रियाणां सर्वे दोषा नश्यन्ति, प्रकाशावरणक्षये च धारणासु मनसो योग्यता सञ्जायते, अतः प्राणापानौ सेनापतेर्बाहू इव सहायकौ भवतः ॥३॥
Subject
अथेन्द्रस्य जीवात्मनो विजयसाधनानि वर्णयति।