Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1868

1875 Mantra
Devata- इन्द्रः Rishi- शासो भारद्वाजः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
वि꣡ न꣢ इन्द्र꣣ मृ꣡धो꣢ जहि नी꣣चा꣡ य꣢च्छ पृतन्य꣣तः꣢ । यो꣢ अ꣣स्मा꣡ꣳ अ꣢भि꣣दा꣢स꣣त्य꣡ध꣢रं गमया꣣ त꣡मः꣢ ॥१८६८॥

वि । नः꣣ । इन्द्र । मृ꣡धः꣢꣯ । ज꣣हि । नीचा꣢ । य꣣च्छ । पृतन्यतः꣢ । यः । अ꣣स्मा꣢न् । अ꣣भिदा꣡स꣢ति । अ꣣भि । दा꣡स꣢꣯ति । अ꣡ध꣢꣯रम् । ग꣣मय । त꣡मः꣢꣯ ॥१८६८॥

Mantra without Swara
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माꣳ अभिदासत्यधरं गमया तमः ॥

वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान् । अभिदासति । अभि । दासति । अधरम् । गमय । तमः ॥१८६८॥

Samveda - Mantra Number : 1868
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन् सेनापते वा ! त्वम् (नः) अस्माकम् (मृधः) हिंसकान् (विजहि) विनाशय, (पृतन्यतः) सेनया अभिगच्छतः कामक्रोधादीन् बाह्यांश्च शत्रून् (नीचा यच्छ) नीचीनं गमय। (यः) आन्तरो बाह्यो वा शत्रुः (अस्मान्) धार्मिकान् (अभिदासति) सर्वतः उपक्षयति [दसु उपक्षये, लेटि वर्णव्यत्ययेनाऽकारस्य स्थाने आकारः] तम् (अधरं तमः गमय) घोरां दुर्गतिम् अधरं कारागारं वा प्रापय ॥२॥२
Essence
यथा सेनापतिर्दुष्टान् शत्रून् हन्ति कारागारे वा प्रक्षिपति तथैव देहाधिष्ठाता जीवात्मा सर्वानान्तरान् सपत्नान् घोरां दुर्गतिं नीत्वा विनाश्य वा निष्कण्टकं स्वसाम्राज्यं स्थापयेत् ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।