Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1867

1875 Mantra
Devata- इन्द्रः Rishi- शासो भारद्वाजः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
वि꣢꣯ रक्षो꣣ वि꣡ मृधो꣢꣯ जहि꣣ वि꣢ वृ꣣त्र꣢स्य꣣ ह꣡नू꣢ रुज । वि꣣ म꣣न्यु꣡मि꣢न्द्र वृत्रहन्न꣣मि꣡त्र꣢स्याभि꣣दा꣡स꣢तः ॥१८६७॥

वि꣢ । र꣡क्षः꣢꣯ । वि । मृ꣡धः꣢꣯ । ज꣣हि । वि꣢ । वृ꣣त्र꣡स्य꣢ । ह꣢꣯नूइ꣡ति꣢ । रु꣣ज । वि꣢ । म꣣न्यु꣢म् । इन्द्र । वृत्रहन् । वृत्र । हन् । अमि꣡त्र꣢स्य । अ꣣ । मि꣡त्र꣢꣯स्य । अ꣡भिदा꣡स꣢तः । अ꣣भि । दा꣡स꣢꣯तः ॥१८६७॥

Mantra without Swara
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥

वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनूइति । रुज । वि । मन्युम् । इन्द्र । वृत्रहन् । वृत्र । हन् । अमित्रस्य । अ । मित्रस्य । अभिदासतः । अभि । दासतः ॥१८६७॥

Samveda - Mantra Number : 1867
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृत्रहन् इन्द्र) पापहन्तः जीवात्मन् शत्रुहन्तः सेनापते वा ! त्वम् (रक्षः) राक्षसं स्वभावं दुर्जनं वा (विजहि) विनाशय, (मृधः) संग्रामकारिणः कामक्रोधादीन्, हिंसकान् मानवान् रिपून् वा (विजहि) विनाशय, (वृत्रस्य) पुण्याच्छादकस्य पापस्य पापिनो वा (हनू) आक्रामकनिरोधकोपायौ जम्भौ वा (विरुज) विभङ्ग्धि। अभिदासतः दंशनं छेदनं भेदनं वा कुर्वतः (अमित्रस्य) शत्रोः। [अभिदासतः, दस दंशनदर्शनयोः चुरादिः, णिगर्भः शतृप्रयोगः।] (मन्युम्) दीप्तं प्रभावं क्रोधं वा (वि) विजहि विध्वंसय ॥१॥
Essence
यथा राष्ट्रे सेनापतिः संहारकारिणः शत्रून् मृद्नाति तथैव देहे जीवात्मा राक्षसं स्वभावं, हिंसकान् कामक्रोधादीन्, धर्माच्छादकं पापं, वृश्चिकवद् दंशकं कौटिल्यं च विहन्यात् ॥१॥
Subject
तत्रादौ जीवात्मानं सेनापतिं चोद्बोधयति।