Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1866

1875 Mantra
Devata- संग्रामशिषः Rishi- पायुर्भारद्वाजः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
य꣡त्र꣢ बा꣣णाः꣢ स꣣म्प꣡त꣢न्ति कुमा꣣रा꣡ वि꣢शि꣣खा꣡ इ꣢व । त꣡त्र꣢ नो꣣ ब्र꣡ह्म꣢ण꣣स्प꣢ति꣣र꣡दि꣢तिः꣣ श꣡र्म꣢ यच्छतु वि꣣श्वा꣢हा꣣ श꣡र्म꣢ यच्छतु ॥१८६६॥

य꣡त्र꣢꣯ । बा꣣णाः꣢ । सं꣣प꣡त꣢न्ति । स꣣म् । प꣡त꣢꣯न्ति । कु꣣माराः꣢ । वि꣣शिखाः꣢ । वि꣣ । शिखाः꣢ । इ꣣व । त꣡त्र꣢꣯ । नः꣣ । ब्र꣡ह्म꣢꣯णः । प꣡तिः꣢꣯ । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । श꣡र्म꣢꣯ । य꣢च्छतु । विश्वा꣡हा꣢ । श꣡र्म꣢꣯ । य꣣च्छतु ॥१८६६॥

Mantra without Swara
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

यत्र । बाणाः । संपतन्ति । सम् । पतन्ति । कुमाराः । विशिखाः । वि । शिखाः । इव । तत्र । नः । ब्रह्मणः । पतिः । अदितिः । अ । दितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु ॥१८६६॥

Samveda - Mantra Number : 1866
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्र) यस्मिन् समराङ्गणे (बाणाः) शराः, शरादीन्यस्त्राणि (संपतन्ति) संपातं कुर्वन्ति, (विशिखाः कुमाराः इव) यथा कृतचूडाकर्माणः शिखारहिताः बालाः पदनिक्षेपाभ्यासं कुर्वन्तः पदे पदे पतन्ति, (तत्र) तस्मिन् समराङ्गणे (ब्रह्मणः पतिः) ज्ञानस्य रक्षको जीवात्मा, बृहतो राष्ट्रस्य रक्षकः सेनापतिर्वा, (अदितिः) कुतर्कैरखण्डनीया बुद्धिः राष्ट्रभूमिर्वा (नः) अस्मभ्यम् (शर्म) कल्याणम् (यच्छतु) ददातु, (विश्वाहा) सर्वदा (शर्म) कल्याणम् (यच्छतु) ददातु। [अभ्यासे भूयांसमर्थं मन्यन्ते, यथाहो दर्शनीयाहो दर्शनीयेति (निरु० १०।४०) न्यायेनात्र पुनरुक्तौ भूयानर्थः समाविष्टः] ॥३॥२ अत्रोपमालङ्कारः ॥३॥
Essence
बाह्ये संग्रामे सेनापतिः प्रतिपक्षिणो भटान् तीक्ष्णैः शरैश्छित्वा स्वपक्षीयेभ्यः सुखं प्रयच्छेत्। तथैवाध्यात्मिके देवासुरसंग्रामे जीवात्मा कामक्रोधादिरिपूंश्छित्त्वा भित्त्वा मनोभूमिं निःसपत्नां कुर्यात् ॥३॥
Subject
अथ युद्धे विजयः प्रार्थ्यते।