Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1865

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣣मित्रसेनां꣡ म꣢घवन्न꣣स्मा꣡ञ्छ꣢त्रुय꣣ती꣢म꣣भि꣢ । उ꣣भौ꣡ तामि꣢꣯न्द्र वृत्रहन्न꣣ग्नि꣡श्च꣢ दहतं꣣ प्र꣡ति꣢ ॥१८६५॥

अ꣣मित्रसेना꣢म् । अ꣣मित्र । सेना꣢म् । म꣣घवन् । अस्मा꣢न् । श꣣त्रुयती꣢म् । अ꣣भि꣢ । उ꣡भौ꣢ । ताम् । इ꣣न्द्र । वृत्रहन् । वृत्र । हन् । अग्निः꣢ । च꣣ । दहतम् । प्र꣡ति꣢꣯ ॥१८६५॥

Mantra without Swara
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि । उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥

अमित्रसेनाम् । अमित्र । सेनाम् । मघवन् । अस्मान् । शत्रुयतीम् । अभि । उभौ । ताम् । इन्द्र । वृत्रहन् । वृत्र । हन् । अग्निः । च । दहतम् । प्रति ॥१८६५॥

Samveda - Mantra Number : 1865
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मघवन्) दिव्यैश्वर्यवन्, (वृत्रहन्) शत्रुहन्तः (इन्द्र) वीर जीवात्मन् ! (अस्मान् अभि) अस्मान् प्रति (शत्रुयतीम्) शत्रुत्वमाचरन्तीम्, (ताम्) विकरालाम् (अमित्रसेनाम्) रिपुसेनाम्, त्वम् (अग्निः च) तैजसं मनश्च (उभौ) द्वावपि (प्रतिदहतम्) भस्मीकुरुतम् ॥२॥
Essence
यथा नृपतेः सेनापतेश्चोद्योगेन सर्वे बाह्याः शत्रवो निःशेषा जायन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मा मनश्च सर्वान् विघ्नान् रिपूंश्च प्रतिदग्धुं प्रभवतः ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।