Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1864

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
क꣣ङ्काः꣡ सु꣢प꣣र्णा꣡ अनु꣢꣯ यन्त्वेना꣣न्गृ꣡ध्रा꣢णा꣣म꣡न्न꣢म꣣सा꣡वस्तु꣣ से꣡ना꣢ । मै꣡षां꣢ मोच्यघहा꣣र꣢श्च꣣ ने꣢न्द्र꣣ व꣡या꣢ꣳस्येनाननु꣣सं꣡य꣢न्तु꣣ स꣡र्वा꣢न् ॥१८६४

क꣣ङ्काः꣢ । सु꣣प꣢र्णाः । सु꣣ । पर्णाः꣢ । अ꣡नु꣢꣯ । य꣣न्तु । एनान् । गृ꣡ध्रा꣢꣯णाम् । अ꣡न्न꣢꣯म् । अ꣣सौ꣢ । अ꣣स्तु । से꣡ना꣢꣯ । मा । ए꣣षाम् । मोचि । अघहारः꣢ । अ꣣घ । हारः꣢ । च꣣ । न꣢ । इ꣣न्द्र । व꣡या꣢꣯ꣳसि । ए꣣नान् । अ꣣नु꣡संय꣢न्तु । अ꣣नु । सं꣡य꣢꣯न्तु । स꣡र्वा꣢꣯न् ॥१८६४॥

Mantra without Swara
कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना । मैषां मोच्यघहारश्च नेन्द्र वयाꣳस्येनाननुसंयन्तु सर्वान् ॥१८६४

कङ्काः । सुपर्णाः । सु । पर्णाः । अनु । यन्तु । एनान् । गृध्राणाम् । अन्नम् । असौ । अस्तु । सेना । मा । एषाम् । मोचि । अघहारः । अघ । हारः । च । न । इन्द्र । वयाꣳसि । एनान् । अनुसंयन्तु । अनु । संयन्तु । सर्वान् ॥१८६४॥

Samveda - Mantra Number : 1864
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुपर्णाः) दृढपर्णाः (कङ्काः) चिल्लपक्षिणः (एनान्) इमान् शत्रून् (अनु यन्तु) अनुगच्छन्तु। (असौ सेना) शत्रूणां सा चमूः, (गृध्राणाम्) एतन्नाम्नां पक्षिणाम् (अन्नम् अस्तु) भोजनं भवतु। हे (इन्द्र) सेनापतिरिव वीर जीवात्मन् ! (एषाम्) शत्रूणाम् (अघहारः च न) पापहारकः कश्चिदपि (मा मोचि) न मुच्यताम्। (एनान् सर्वान्) इमान् निःशेषानपि (वयांसि) क्रव्यादाः पक्षिणः (अनु संयन्तु) अनुप्राप्नुवन्तु भक्षयन्त्वित्यर्थः ॥१॥
Essence
यथा बाह्ये रणे मारिताः शत्रवो गृध्रादिभिर्मांसभक्षकैः पक्षिभिः निःशेषाः क्रियन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मना हतानां कामक्रोधादीनां सपत्नानां यथा नामापि च शिष्येत तथा मनुष्यैः प्रयतनीयम् ॥१॥
Subject
तत्रादौ शत्रुसेनायाः समूलोच्छेदविषयं प्राह।