Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1863

1875 Mantra
Devata- इषवः Rishi- पायुर्भारद्वाजः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣡व꣢सृष्टा꣣ प꣡रा꣢ पत꣣ श꣡र꣢व्ये꣣ ब्र꣡ह्म꣢सꣳशिते । ग꣢च्छा꣣मि꣢त्रा꣣न्प्र꣡ प꣢द्यस्व꣣ मा꣢꣫मीषां꣣ कं꣢ च꣣ नो꣡च्छि꣢षः ॥१८६३॥

अ꣡व꣢꣯ । सृ꣣ष्टा । प꣡रा꣢꣯ । प꣣त । श꣡र꣢꣯व्ये । ब्र꣡ह्म꣢꣯शꣳसिते । ब्र꣡ह्म꣢꣯ । श꣣ꣳसिते । ग꣡च्छ꣢꣯ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । प्र । प꣣द्यस्व । मा꣢ । अ꣣मी꣡षा꣢म् । कम् । च꣣ । न꣢ । उत् । शि꣣षः ॥१८६३॥

Mantra without Swara
अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते । गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥

अव । सृष्टा । परा । पत । शरव्ये । ब्रह्मशꣳसिते । ब्रह्म । शꣳसिते । गच्छ । अमित्रान् । अ । मित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । च । न । उत् । शिषः ॥१८६३॥

Samveda - Mantra Number : 1863
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ब्रह्मशंसिते२) ब्रह्मणा धनुर्वेदविदा सेनापतिना तीक्ष्णीकृते (शरव्ये) शरेषु शस्त्रास्त्रचालनेषु साध्वि सेने३ ! (अवसृष्टा) प्रेरिता त्वम् (परा पत) शत्रूणामुरि आक्राम। (गच्छ) याहि, (अमित्रान्) शत्रून् (प्र पद्यस्व) प्राप्नुहि, (अमीषाम्) एषां मध्ये (कं चन) कमपि (न उच्छिषः) न अवशिष्टं परित्यज ॥३॥४
Essence
यथा सेनापतिना प्रेरिता वीराणां सेना शत्रुविजयकरी जायते तथैव शरीराध्यक्षेण जीवात्मना प्रेषिता सात्त्विकानां वीरभावानां सेना तामसान् दुर्भावान् विजयते। तामसभावानां निःशेषकरणमेव श्रेयस्करं यतो नाममात्रमप्यवशिष्टास्ते पुनरपि वर्द्धन्ते ॥३॥
Subject
अथ स्वसेनामुद्बोधयति।