Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1862

1875 Mantra
Devata- इन्द्रो मरुतो वा Rishi- अप्रतिरथ ऐन्द्रः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रे꣢ता꣣ ज꣡य꣢ता नर꣣ इ꣡न्द्रो꣢ वः꣣ श꣡र्म꣢ यच्छतु । उ꣣ग्रा꣡ वः꣢ सन्तु बा꣣ह꣡वो꣢ऽनाधृ꣣ष्या꣡ यथास꣢꣯थ ॥१८६२॥

प्र꣢ । इ꣣त । ज꣡य꣢꣯त । न꣣रः । इ꣡न्द्रः꣢꣯ । वः꣣ । श꣡र्म꣢꣯ । य꣣च्छतु । उग्राः꣢ । वः꣣ । सन्तु । बाह꣡वः꣢ । अ꣣नाधृष्याः꣢ । अ꣣न् । आधृष्याः꣢ । य꣡था꣢꣯ । अ꣡स꣢꣯थ ॥१८६२॥

Mantra without Swara
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥

प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु । उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । अन् । आधृष्याः । यथा । असथ ॥१८६२॥

Samveda - Mantra Number : 1862
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नरः) वीरा योद्धारः ! (प्रेत) अग्रे गच्छत, (जयत) विजयं प्राप्नुत। (इन्द्रः) युष्माकं वीरः अन्तरात्मा (वः) युष्मभ्यम् (शर्म) कल्याणम् (यच्छतु) ददातु। (वः) युष्माकम् (बाहवः) भुजाः (उग्राः) उद्गूर्णबलाः, प्रचण्डाः (सन्तु) भवन्तु, (यथा) येन यूयम् (अनाधृष्याः) केनाप्यपराजेयाः (असथ) भवत। [संहितायां ‘प्रेता’ इत्यत्र ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति ‘जयता’ इत्यत्र च ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। असथ, अस्तेर्लेटि मध्यमबहुवचनम्] ॥२॥२ अत्र वीरो रसः ॥२॥
Essence
मनुष्येषूद्बोधनं तदैव संभवति यदि तेषामात्मा सबलो भवेत्। अतः स्वात्मानं बलिनं विधायोद्बोधनं प्राप्य जीवनसंग्रामे सर्वैर्विजयः प्राप्तव्यः ॥२॥
Subject
अथ वीरानुद्बोधयति।