Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1861

1875 Mantra
Devata- अप्वा Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣मी꣡षां꣢ चि꣣त्तं꣡ प्र꣢तिलो꣣भ꣡य꣢न्ती गृहा꣣णा꣡ङ्गा꣢न्यप्वे꣣ प꣡रे꣢हि । अ꣣भि꣢꣫ प्रेहि꣣ नि꣡र्द꣢ह हृ꣣त्सु꣡ शोकै꣢꣯र꣣न्धे꣢ना꣣मि꣢त्रा꣣स्त꣡म꣢सा सचन्ताम् ॥१८६१॥

अ꣣मी꣡षा꣢म् । चि꣣त्त꣢म् । प्र꣣तिलोभ꣡य꣢न्ती । प्र꣣ति । लोभ꣡य꣢न्ती । गृ꣣हाण꣢ । अ꣡ङ्गा꣢꣯नि । अ꣣प्वे । प꣡रा꣢꣯ । इ꣣हि । अभि꣢ । प्र । इ꣣हि । निः꣢ । द꣣ह । हृत्सु꣢ । शो꣡कैः꣢꣯ । अ꣣न्धे꣡न꣢ । अ꣣मि꣡त्राः꣢ । अ꣣ । मि꣡त्राः꣢꣯ । त꣡म꣢꣯सा । स꣣चन्ताम् ॥१८६१॥

Mantra without Swara
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥

अमीषाम् । चित्तम् । प्रतिलोभयन्ती । प्रति । लोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । निः । दह । हृत्सु । शोकैः । अन्धेन । अमित्राः । अ । मित्राः । तमसा । सचन्ताम् ॥१८६१॥

Samveda - Mantra Number : 1861
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अप्वे) व्याधे भीते वा ! [अप्वा यदेनया विद्धोऽपवीयते, व्याधिर्वा भयं वा। निरु० ६।१२।] (परेहि) शत्रुदलं गच्छ। (अमीषाम्) एषां शत्रूणाम् (चित्तम्) संज्ञानम् (प्रतिलोभयन्ती) मोहयन्ती (अङ्गानि) एषां शरीरावयवान् (गृहाण) बधान। (अभि प्रेहि) शत्रून् प्रति गच्छ, तान् (हृत्सु) हृदयेषु (शोकैः) पीडाभिः (निर्दह) दाहमुत्पादय। (अमित्राः) शत्रवः (अन्धेन) गाढेन (तमसा) मोहान्धकारेण (सचन्ताम्) संयुज्यन्ताम् ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[अमीषां चित्तानि प्रज्ञानानि प्रतिलोभयमाना गृहाणाङ्गानि, अप्वे परेहि। अभि प्रेहि, निर्दहैषां हृदयानि शोकैरन्धेनामित्रास्तमसा संसेव्यन्ताम् (निरु० ९।३२) इति]।
Essence
यथा व्याधिना भयेन वा ग्रस्ताः शत्रवः किंकर्तव्यविमूढा दग्धहृदयाश्च सन्तः पराजीयन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे कामक्रोधलोभमोहादयो व्याधिस्त्यानसंशयप्रमादालस्यादयो वा रिपवो व्याधिग्रस्ता इव भयोद्विग्ना इव झटिति विनश्यन्ताम् ॥१॥
Subject
तत्रादौ शत्रून् व्याधिना भयेन वा पीडितान् कर्तुमाह।