Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1860

1875 Mantra
Devata- मरुतः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣सौ꣡ या सेना꣢꣯ मरुतः꣣ प꣡रे꣢षाम꣣भ्ये꣡ति꣢ न꣣ ओ꣡ज꣢सा꣣ स्प꣡र्ध꣢माना । तां꣡ गू꣢हत꣣ त꣢म꣣सा꣡प꣢व्रतेन꣣ य꣢थै꣣ते꣡षा꣢म꣣न्यो꣢ अ꣣न्यं꣢꣫ न जा꣣ना꣢त् ॥१८६०॥

अ꣣सौ꣢ । या । से꣡ना꣢꣯ । म꣣रुतः । प꣡रे꣢꣯षाम् । अ꣣भ्ये꣡ति꣢ । अ꣣भि । ए꣡ति꣢꣯ । नः꣣ । ओ꣡ज꣢꣯सा । स्प꣡र्ध꣢꣯माना । ताम् । गू꣣हत । त꣡म꣢꣯सा । अ꣡प꣢꣯व्रतेन । अ꣡प꣢꣯ । व्र꣣तेन । य꣡था꣢꣯ । ए꣣ते꣡षा꣢म् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । न । जा꣣ना꣢त् ॥१८६०॥

Mantra without Swara
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना । तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥

असौ । या । सेना । मरुतः । परेषाम् । अभ्येति । अभि । एति । नः । ओजसा । स्पर्धमाना । ताम् । गूहत । तमसा । अपव्रतेन । अप । व्रतेन । यथा । एतेषाम् । अन्यः । अन् । यः । अन्यम् । अन् । यम् । न । जानात् ॥१८६०॥

Samveda - Mantra Number : 1860
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मरुतः) प्राणाः वीराः सैनिका वा ! (असौ या) एषा या (ओजसा) बलेन (स्पर्धमाना) स्पर्धां कुर्वती (परेषाम्) शत्रूणाम् (सेना) पृतना (नः अभ्येति) अस्मान् प्रत्यागच्छति, (ताम्) सेनाम् (अपव्रतेन) अपगतानि व्रतानि कर्माणि यस्मिंस्तेन (तमसा) अन्धकारेण (गूहत) आच्छादयत। [गुहू संवरणे, भ्वादिः, गुणाभावश्छान्दसः।] (यथा) येन प्रकारेण (एतेषाम्) एषां शत्रूणां मध्ये (अन्यः) एकः (अन्यम्) अपरम् (न जानात्) न जानाति। [ज्ञा अवबोधने धातोर्लेटि रूपम्] ॥३॥२
Essence
यथा युद्धे संमोहनास्त्रप्रयोगेण घने तमसि बाह्याः शत्रवोऽन्योन्यमेव न द्रष्टुं प्रभवन्ति तथैव जीवात्मना प्राणायामद्वारा प्रयुक्तेन संमोहनेनाभ्यन्तराः सर्वेऽपि कामक्रोधादयोऽविद्याऽस्मितादयो वा शत्रवः सर्वथा मुह्येरन् ॥३॥
Subject
अथ शत्रुमोहनाय प्रेरयति।