Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 186

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ग꣣व्यो꣢꣫ षु णो꣣ य꣡था꣢ पु꣣रा꣢श्व꣣यो꣡त र꣢꣯थ꣣या꣢ । व꣣रिवस्या꣢ म꣣हो꣡ना꣢म् ॥१८६॥

ग꣣व्य꣢ । उ꣣ । सु꣢ । नः꣣ । य꣡था꣢꣯ । पु꣣रा꣢ । अ꣣श्वया꣢ । उ꣣त꣢ । र꣣थया꣢ । व꣣रिवस्या꣢ । म꣣हो꣡ना꣢म् ॥१८६॥

Mantra without Swara
गव्यो षु णो यथा पुराश्वयोत रथया । वरिवस्या महोनाम् ॥

गव्य । उ । सु । नः । यथा । पुरा । अश्वया । उत । रथया । वरिवस्या । महोनाम् ॥१८६॥

Samveda - Mantra Number : 186
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमैश्वर्यशालिन् परब्रह्म परमात्मन् राजन् वा ! त्वम् (गव्या२) गवाम् धेनूनां भूमीनां वाक्छक्तीनां, विद्युद्विद्यानाम् अध्यात्मप्रकाशकिरणानां च प्रदानेच्छया, (उ सु) अथ च (अश्वया) अश्वानाम् वाजिनां प्राणबलानाम् अग्निसूर्यविद्यादीनां च प्रदानेच्छया, (उत) अपि च (रथया) रथानाम् भूजलान्तरिक्षयानानां मानवदेहानां च प्रदानेच्छया, किञ्च (महोनाम्३) महताम् अस्माकम् (वरिवस्या४) वरिवो धनं तत्प्रदानेच्छया (यथा पुरा) पूर्वमिव साम्प्रतमपि (नः) अस्मान् आगहि आगच्छ इति शेषः ॥ गवां प्रदानेच्छा गव्या, अश्वानां प्रदानेच्छा अश्वया, रथानां प्रदानेच्छा रथया, वरिवसां धनानां प्रदानेच्छा वरिवस्या। वरिवस् इति धननाम। निघं० २।१०। सर्वत्र छन्दसि परेच्छायां क्यच उपसंख्यानम्।’ अ० ३।१।८ वा० इति परेच्छार्थे क्यच्। न च्छन्दस्यपुत्रस्य।’ अ० ७।४।३५ इति ईत्वदीर्घयोर्निषेधः। क्यजन्तेभ्यः अ प्रत्ययात्।’ अ० ३।३।१०२ इति भावे अः प्रत्ययः, ततष्टाप्। तृतीयैकवचने गव्यया, अश्वयया, रथयया, वरिवस्यया इति प्राप्ते सुपां सुलुक्।’ अ० ७।१।३९ इति तृतीयाया लुक्, पूर्वसवर्णदीर्घो वा। (गव्या)—गौः इति पृथिवीनाम, वाङ्नाम, रश्मिनाम, विद्युन्नाम च। निघं० १।१, १।११, १।५, निरु० ११।३८। (अश्वया)—अश्वः इति अग्निसूर्ययोरपि नाम, प्र नू॒नं जा॒तवे॑दस॒मश्वऺ हिनोत वा॒जिन॑म्।’ ऋ० १०।१८८।१, अग्निरेष यदश्वः।’ श० ६।३।३।२२, असौ वा आदित्यो अश्वः।’ तै० ब्रा० ३।९।२३।२, असौ वा आदित्य एषोऽश्वः।’ श० ७।३।२।१० इत्यादिप्रामाण्यात्। (महोनाम्)—महस् इति महन्नाम। निघं० ३।३। महसाम् इति प्राप्ते नुडागमश्छान्दसः। अत्र श्लेषालङ्कारः ॥२॥
Essence
परमेश्वरस्य कृपया, राज्ञः सुव्यवस्थया, निजपुरुषार्थेन च मनुष्यैर्दोग्ध्र्यो धेनवो, बलवन्तोऽश्वास्तैलवायुविद्युत्सौरतापादिना सञ्चाल्यमानानि भूजलान्तरिक्षयानानि, वाग्बलं, प्राणबलम्, अग्निवायुविद्युदादित्यविद्या अध्यात्मप्रकाशश्चक्रवर्तिराज्यं च प्राप्तव्यानि ॥२॥
Subject
अथेन्द्रनाम्ना परमात्मानं राजानं च प्रार्थयते।
Footnote
१. ऋ० ८।४६।१०, ऋषिः वशोऽश्व्यः। वरिवस्य महामह इति तृतीयः पादः। २. गव्या गव्यया गवीच्छ्या, रथया रथेच्छया, अश्वया अश्वेच्छया वयं त्वां स्तुमः इति वाक्यशेषः—इति वि०। गवादिभ्यः शसो यादेशः सुपां सुलुक् इत्यादिना। गव्या गाः सु सुष्ठु नः अस्मभ्यं वरिवस्य प्रयच्छ। अश्वया अश्वान्, रथया रथान्—इति भ०। अस्माकं गवामिच्छया.... वरिवस्य परिचर आगच्छ, अश्वया अश्वप्रदानेच्छया, रथया रथेच्छया—इति सा०। ३. महोनाम्। महो धनं हविर्लक्षणम्, तद्वताम्—इति भ०। धनानाम्—इति सा०। ४. ऋग्वेदे वरिवस्य इति तिङन्तं पदमस्ति। तदनुसृत्य भरतसायणाभ्यां सामवेदेऽपि तिङन्तं स्वीकृतम्। तथापि पदपाठे वरिवस्या इति पाठात् पदकारस्येदं क्रियापदं न सम्मतम्, यतः पदपाठे दीर्घान्तं क्रियापदं सर्वत्र पदकारो ह्रस्वान्तं प्रदर्शयति, स्वरे तु नः विशेषः। विवरणकारस्तु वरिवस्या। वरिवस्यः परिचरणीयः, तस्मात् सम्बुद्ध्येकवचनम्, तस्य स्थाने सुपां सुलुक् इति आकारः। हे परिचरणीय इत्यर्थः इति व्याचख्यौ। तच्चिन्त्यं, सम्बुद्धिस्वराभावात्। सम्बुद्धौ तु पादादित्वात् षाष्ठेन आमन्त्रितस्य च इति सूत्रेण आद्युदात्तेन भाव्यम्।