Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1859

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣स्मा꣢क꣣मि꣢न्द्रः꣣ स꣡मृ꣢तेषु ध्व꣣जे꣢ष्व꣣स्मा꣢कं꣣ या꣡ इष꣢꣯व꣣स्ता꣡ ज꣢यन्तु । अ꣣स्मा꣡कं꣢ वी꣣रा꣡ उत्त꣢꣯रे भवन्त्व꣣स्मा꣡ꣳ उ꣢ देवा अवता꣣ ह꣡वे꣢षु ॥१८५९॥

अ꣣स्मा꣡क꣢म् । इ꣡न्द्रः꣢꣯ । स꣡मृ꣢꣯तेषु । सम् । ऋ꣣तेषु । ध्वजे꣡षु꣢ । अ꣣स्मा꣡क꣢म् । याः । इ꣡ष꣢꣯वः । ताः । ज꣣यन्तु । अस्मा꣡क꣢म् । वी꣣राः꣢ । उ꣡त्त꣢꣯रे । भ꣣वन्तु । अस्मा꣢न् । उ꣡ । देवाः । अवत । ह꣡वे꣢꣯षु ॥१८५९॥

Mantra without Swara
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्माꣳ उ देवा अवता हवेषु ॥

अस्माकम् । इन्द्रः । समृतेषु । सम् । ऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु । अस्माकम् । वीराः । उत्तरे । भवन्तु । अस्मान् । उ । देवाः । अवत । हवेषु ॥१८५९॥

Samveda - Mantra Number : 1859
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्माकम् इन्द्रः) अस्मदीयः सेनापतिरिव जीवात्मा (ध्वजेषु समृतेषु२) पताकासु शत्रुपताकाभिः सह संगतासु सतीषु [जयतु] विजयं लभताम्। (अस्माकम् या इषवः) आस्माकीनाः याः बाणपङ्क्तयः (ताः जयन्तु) ताः विजयं लभन्ताम्। (अस्माकं वीराः) अस्मदीया रणकुशलाः शूरा योद्धारः (उत्तरे भवन्तु) विजयिनः सन्तु। हे (देवाः) विजिगीषवो मनोबुद्ध्यादयः ! (अस्मान् उ) अस्मान् खलु (हवेषु३) देवासुरसङ्ग्रामेषु (अवत) रक्षत ॥२॥४
Essence
यथा सेनापतेः सकाशात् प्रोद्बोधनं प्राप्य रणोद्भटाः सैनिकाः सत्वरं शत्रून् विजयन्ते, तथैव स्वान्तरात्मनः प्रोत्साहनं वीराणां विजयहेतुर्जायते ॥२॥
Subject
अथ विजयः प्रार्थ्यते।