Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1858

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ꣡द्ध꣢र्षय मघव꣣न्ना꣡यु꣢धा꣣न्यु꣡त्सत्व꣢꣯नां माम꣣का꣢नां꣣ म꣡ना꣢ꣳसि । उ꣡द्वृ꣢त्रहन्वा꣣जि꣢नां꣣ वा꣡जि꣢ना꣣न्यु꣡द्रथा꣢꣯नां꣣ ज꣡य꣢तां यन्तु꣣ घो꣡षाः꣢ ॥१८५८॥

उ꣢त् । ह꣣र्षय । मघवन् । आ꣡यु꣢꣯धानि । उत् । स꣡त्व꣢꣯नाम् । मा꣣मका꣡ना꣢म् । म꣡ना꣢꣯ꣳसि । उत् । वृ꣣त्रहन् । वृत्र । हन् । वाजि꣡ना꣢म् । वा꣡जि꣢꣯नानि । उत् । र꣡था꣢꣯नाम् । ज꣡य꣢꣯ताम् । य꣣न्तु । घो꣡षाः꣢꣯ ॥१८५८॥

Mantra without Swara
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाꣳसि । उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥

उत् । हर्षय । मघवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनाꣳसि । उत् । वृत्रहन् । वृत्र । हन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥१८५८॥

Samveda - Mantra Number : 1858
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मघवन्) ऐश्वर्यशालिन् देहाधिष्ठातः जीवात्मन् ! (आयुधानि) शस्त्रास्त्राणि (उद्धर्षय) उत्स्फोरय, (मामकानाम्) मदीयानाम् (सत्वनाम्) वीराणाम् (मनांसि) हृदयानि (उत्) उद्धर्षय उत्स्फोरय उत्साहय। हे (वृत्रहन्) पापहन्तः विघ्नहन्तः शत्रुहन्तः आत्मन् ! (वाजिनाम्) बलवतां योद्धॄणाम् (वाजिनानि) युद्धक्रियाकौशलानि (उद् यन्तु) उद्गच्छन्तु, (जयताम्) विजयं प्राप्नुवताम् (रथानाम्) यानानाम्, लक्षणया यानारोहिणाम् (घोषाः) विजयघोषाः (उद् यन्तु) उद् गच्छन्तु ॥१॥२ अत्र वीरो रसः। उद् इत्यस्यावृत्तौ लाटानुप्रासः। ‘वाजिनां, वाजिना’ इत्यत्र च यमकम्, यकारनकारमकारतकारानुप्रासाः ॥१॥
Essence
योऽयं कश्चिद् राजा वा सेनापतिर्वा शस्त्रास्त्राणि तेजयति, स्वपक्षीयाणां वीराणां मनांस्युत्साहयति, विजयदुन्दुभिं वादयति, तत्सर्वं कृत्यं तद्देहस्थस्य जीवात्मन एव। अतः स एव सम्बोद्ध्यः। आत्मोद्बोधनेनैव बाह्यविजयवदाभ्यन्तरविजयोऽपि प्राप्यते ॥१॥
Subject
तत्रादाविन्द्रो जीवात्मा प्रोद्बोध्यते।