Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1855

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣भि꣢ गो꣣त्रा꣢णि꣣ स꣡ह꣢सा꣣ गा꣡ह꣢मानोऽद꣣यो꣢ वी꣣रः꣢ श꣣त꣡म꣢न्यु꣣रि꣡न्द्रः꣢ । दु꣣श्च्यवनः꣡ पृ꣢तना꣣षा꣡ड꣢यु꣣ध्यो꣢३ऽस्मा꣢क꣣ꣳ से꣡ना꣢ अवतु꣣ प्र꣢ यु꣣त्सु꣢ ॥१८५५॥

अ꣣भि꣢ । गो꣣त्रा꣡णि꣢ । स꣡ह꣢꣯सा । गा꣡ह꣢꣯मानः । अ꣣दयः꣢ । अ꣣ । दयः꣢ । वी꣣रः꣢ । श꣣त꣡म꣢न्युः । श꣣त꣢ । म꣣न्युः । इ꣡न्द्रः꣢꣯ । दु꣣श्च्यवनः꣢ । दुः꣣ । च्यवनः꣢ । पृ꣣तनाषा꣢ट् । पृ꣣तना । षा꣢ट् । अ꣣युध्यः꣢ । अ꣣ । युध्यः꣢ । अ꣣स्मा꣡क꣢म् । से꣡नाः꣢꣯ । अ꣣वतु । प्र꣢ । यु꣡त्सु꣢ ॥१८५५॥

Mantra without Swara
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकꣳ सेना अवतु प्र युत्सु ॥

अभि । गोत्राणि । सहसा । गाहमानः । अदयः । अ । दयः । वीरः । शतमन्युः । शत । मन्युः । इन्द्रः । दुश्च्यवनः । दुः । च्यवनः । पृतनाषाट् । पृतना । षाट् । अयुध्यः । अ । युध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्सु ॥१८५५॥

Samveda - Mantra Number : 1855
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सहसा) आत्मबलेन (गोत्राणि) व्याधिस्त्यानसंशयादीनां योगविघ्नानां बाह्यविघ्नानां च दुर्गाणि (अभि गाहमानः) आलोडयमानः, (अदयः) अन्तःशत्रुषु बाह्यशत्रुषु च निर्दयः, (वीरः) पराक्रमवान्, (शतमन्युः) अनन्ततेजाः, (दुश्च्यवनः) रिपुभिरच्याव्यः, (पृतनाषाट्) शत्रुसेनानां पराजेता, (अयुध्यः) शत्रुभिर्योद्धुमशक्यः (इन्द्रः) जीवात्मरूपः सेनापतिः (युत्सु) आन्तरेषु बाह्येषु च देवासुरसंग्रामेषु (अस्माकम् सेनाः) अस्मत्पक्षीयाः यमनियमादीनां धार्मिकाणां योद्धॄणां वा पृतनाः (प्र अवतु) प्रकर्षेण रक्षतु ॥१॥२
Essence
यथा राष्ट्रे कश्चिद् वीरः सेनानीः स्वपक्षीयाः सेनाः शत्रुभ्यो रक्षति, दुष्टान् रिपूंश्च शस्त्रास्त्रैर्हिनस्ति तथैव देहाधिष्ठितो जीवात्मा प्रबोधं प्राप्य स्वसंकल्पबलेन बाहुबलेन च सर्वानाभ्यन्तरान् बाह्यांश्च शत्रून् पराजयेत् ॥१॥
Subject
तत्रादौ जीवात्मरूपः सेनापतिः रक्षणं प्रार्थ्यते।