Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1852

1875 Mantra
Devata- बृहस्पतिः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
बृ꣡ह꣢स्पते꣣ प꣡रि꣢ दीया꣣ र꣡थे꣢न रक्षो꣣हा꣡मित्रा꣢꣯ꣳ अप꣣बा꣡ध꣢मानः । प्र꣣भ꣡ञ्जन्सेनाः꣢꣯ प्रमृ꣣णो꣢ यु꣣धा꣡ जय꣢꣯न्न꣣स्मा꣡क꣢मेध्यवि꣣ता꣡ रथा꣢꣯नाम् ॥१८५२॥

बृ꣡हः꣢꣯ । प꣣ते । प꣡रि꣢꣯ । दी꣣य । र꣡थेन । र꣣क्षोहा꣢ । र꣣क्षः । हा꣢ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । अ꣣पबा꣡ध꣢मानः । अ꣣प । बा꣡ध꣢꣯मानः । प्र꣣भञ्ज꣢न् । प्र꣣ । भञ्ज꣢न् । से꣡नाः꣢꣯ । प्र꣡मृणः꣢꣯ । प्र꣣ । मृणः꣢ । यु꣣धा꣢ । ज꣡य꣢꣯न् । अ꣣स्मा꣡क꣢म् । ए꣣धि । अवि꣢ता । र꣡था꣢꣯नाम् ॥१८५२॥

Mantra without Swara
बृहस्पते परि दीया रथेन रक्षोहामित्राꣳ अपबाधमानः । प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥

बृहः । पते । परि । दीय । रथेन । रक्षोहा । रक्षः । हा । अमित्रान् । अ । मित्रान् । अपबाधमानः । अप । बाधमानः । प्रभञ्जन् । प्र । भञ्जन् । सेनाः । प्रमृणः । प्र । मृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥१८५२॥

Samveda - Mantra Number : 1852
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (बृहः पते) बृहत्याः दिव्यगुणसेनायाः पते जीवात्मन् ! (रक्षोहा) रक्शांसि पापानि दुष्टान् वा हन्ति यः सः, त्वम् (अमित्रान्) विघ्नान् शत्रून् वा (अपबाधमानः) तिरस्कुर्वन्, (रथेन) देहरूपेण शकटेन (परि दीय) सर्वतो गच्छ। (सेनाः) कामक्रोधादीनां दुर्जनानां वा पृतनाः (प्रभञ्जन्) प्ररुजन्, (प्रमृणः) ये मृणन्ति हिंसन्ति तान् दुर्विचारान् हिंसकजनान् वा (युधा) आभ्यन्तरेण बाह्येन च देवासुरसंग्रामेण (जयन्) पराभवन् (अस्माकम्) सदाचारिणां धार्मिकाणां न्यायकारिणां जनानाम् (रथानाम्) यानानाम् (अविता) रक्षिता (एधि) भव। [अमित्रान्, न विद्यन्ते मित्राणि येषां तान्। बहुव्रीहौ ‘नञो जरमरमित्रमृताः’ अ० ६।२।११६ इति मित्रशब्दस्याद्युदात्तत्वम्। परिदीय, दीयति गतिकर्मा, निघं० २।१४।] ॥१॥२
Essence
जीवात्मा सेनापतिरिवोत्साहं सञ्चित्यान्तरान् बाह्यांश्च रिपून् विद्रावयन् सद्भावान् सज्जनांश्च प्ररक्षेत् ॥१॥
Subject
तत्रादौ जीवात्मानं देवासुरसंग्रामे विजयाय प्रोद्बोधयति।