Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1851

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣡ इषु꣢꣯हस्तैः꣣ स꣡ नि꣢ष꣣ङ्गि꣡भि꣢र्व꣣शी꣡ सꣳस्र꣢꣯ष्टा꣣ स꣢꣫ युध꣣ इ꣡न्द्रो꣢ ग꣣णे꣡न꣢ । स꣣ꣳसृष्टजि꣡त्सो꣢म꣣पा꣡ बा꣢हुश꣣र्ध्यू꣢३꣱ग्र꣡ध꣢न्वा꣣ प्र꣡ति꣢हिताभि꣣र꣡स्ता꣢ ॥१८५१॥

सः । इ꣡षु꣢꣯हस्तैः । इ꣡षु꣢꣯ । ह꣣स्तैः । सः꣢ । नि꣣षङ्गि꣡भिः꣢ । नि꣣ । सङ्गि꣡भिः꣢ । व꣣शी꣢ । स꣡ꣳस्र꣢꣯ष्टा । सम् । स्र꣣ष्टा । सः꣢ । यु꣡धः꣢꣯ । इ꣡न्द्रः꣢꣯ । ग꣣णे꣡न꣢ । स꣣ꣳसृष्टजि꣢त् । स꣣ꣳसृष्ट । जि꣢त् । सो꣡मपाः꣢ । सो꣣म । पाः꣢ । बा꣣हुश꣢र्द्धी । बा꣣हु । श꣢र्द्धी । उ꣣ग्र꣡ध꣢न्वा । उ꣣ग्र꣢ । ध꣣न्वा । प्र꣡ति꣢꣯हिताभिः । प्र꣡ति꣢꣯ । हि꣣ताभिः । अ꣡स्ता꣢꣯ ॥१८५१॥१

Mantra without Swara
स इषुहस्तैः स निषङ्गिभिर्वशी सꣳस्रष्टा स युध इन्द्रो गणेन । सꣳसृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥

सः । इषुहस्तैः । इषु । हस्तैः । सः । निषङ्गिभिः । नि । सङ्गिभिः । वशी । सꣳस्रष्टा । सम् । स्रष्टा । सः । युधः । इन्द्रः । गणेन । सꣳसृष्टजित् । सꣳसृष्ट । जित् । सोमपाः । सोम । पाः । बाहुशर्द्धी । बाहु । शर्द्धी । उग्रधन्वा । उग्र । धन्वा । प्रतिहिताभिः । प्रति । हिताभिः । अस्ता ॥१८५१॥१

Samveda - Mantra Number : 1851
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ देहे गृहीतजन्मा जीवात्मा (इषुहस्तैः) शरपाणिभिः योद्धृभिः, (सः) असौ जीवात्मा (निषङ्गिभिः) तूणीरधारिभिः योद्धृभिः (वशी) शत्रूणां वशकरो जायते। (सः इन्द्रः) असौ वीरो जीवात्मा (युधः) युद्धकर्तुः शत्रोः (गणेन) बलेन सह (संस्रष्टा) संघर्षको जायते। (संसृष्टजित्) संघर्षकर्तॄणां जेता, (सोमपाः) वीररसस्य पाता, (बाहुशर्धी) बाहुबलयुक्तः (उग्रधन्वा) प्रचण्डधनुष्कः (प्रतिहिताभिः) प्रेरिताभिः इषुभिः (अस्ता) शत्रून् भूमौ प्रक्षेप्ता च भवति ॥३॥२
Essence
कुशलः सेनाध्यक्षो यथा स्वकीयैः शस्त्रास्त्रधरैर्योद्धृभिर्बलवतोऽपि शत्रून् धराशायिनः करोति तथैव देहधारी वीरो जीवात्मा स्वपक्षीयान् वीरानुद्बोध्याभ्यन्तरं बाह्यं च सङ्ग्रामं सद्यो जयेत् ॥३॥
Subject
अथ पुनरपि स एव विषयो वर्ण्यते।