Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1850

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣣ङ्क्र꣡न्द꣢नेनानिमि꣣षे꣡ण꣣ जि꣣ष्णु꣡ना꣢ युत्का꣣रे꣡ण꣢ दुश्च्यव꣣ने꣡न꣢ धृ꣣ष्णु꣡ना꣢ । त꣡दिन्द्रे꣢꣯ण जयत꣣ त꣡त्स꣢हध्वं꣣ यु꣡धो꣢ नर꣣ इ꣡षु꣢हस्तेन꣣ वृ꣡ष्णा꣢ ॥१८५०॥

सं꣣क्र꣡न्द꣢नेन । स꣣म् । क्र꣡न्द꣢꣯नेन । अ꣣निमिषे꣡ण꣢ । अ꣣ । निमिषे꣡ण꣢ । जि꣣ष्णु꣡ना꣢ । यु꣣त्कारे꣡ण꣢ । यु꣣त् । कारे꣡ण꣢ । दु꣣श्च्यवने꣡न꣢ । दुः꣣ । च्यवने꣡न꣢ । धृ꣣ष्णु꣡ना꣢ । तत् । इ꣡न्द्रे꣢꣯ण । ज꣣यत । त꣢त् । स꣢हध्वम् । यु꣡धः꣢꣯ । न꣣रः । इ꣡षु꣢꣯हस्तेन । इ꣡षु꣢꣯ । ह꣢स्तेन । वृ꣡ष्णा꣢꣯ ॥१८५०॥

Mantra without Swara
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥

संक्रन्दनेन । सम् । क्रन्दनेन । अनिमिषेण । अ । निमिषेण । जिष्णुना । युत्कारेण । युत् । कारेण । दुश्च्यवनेन । दुः । च्यवनेन । धृष्णुना । तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुहस्तेन । इषु । हस्तेन । वृष्णा ॥१८५०॥

Samveda - Mantra Number : 1850
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (युधः नरः) योद्धारः पुरुषाः ! यूयम् (सङ्क्रन्दनेन) शत्रुरोदकेन, (अनिमिषेण) निर्निमेषं लक्ष्ये बद्धदृष्टिना, (जिष्णुना) जयशीलेन, (युत्कारेण) सङ्ग्रामकारिणा, (दुश्च्यवनेन) विपक्षिभिः अविचाल्येन, (धृष्णुना) स्वयं विपक्षिणां धर्षकेण, (इषुहस्तेन) आयुधपाणिना, (वृष्णा) अस्त्रवर्षकेण (इन्द्रेण) सेनापतिना इव वीरेण जीवात्मना (तत्) युद्धम् (जयत) विजयध्वम्, (तत्) आभ्यन्तरं बाह्यं च शत्रुदलम् (सहध्वम्) पराजयध्वम् ॥२॥२
Essence
यथा शस्त्रास्त्रधरस्य वीरस्य सेनापतेर्नेतृत्वे योद्धारः संग्रामं जयन्ति तथैव स्वकीयं जीवात्मानमुद्बोध्य तं नेतारं विधाय सर्वाण्याभ्यन्तराणि बाह्यानि च युद्धानि सर्वे जयन्तु ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।