Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 185

1875 Mantra
Devata- इन्द्रः Rishi- कण्वो घौरः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡ꣳ रक्ष꣢꣯न्ति꣣ प्र꣡चे꣢तसो꣣ व꣡रु꣢णो मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । न꣢ किः꣣ स꣡ द꣢भ्यते꣣ ज꣡नः꣢ ॥१८५॥

य꣢म् । र꣡क्ष꣢꣯न्ति । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । न । किः꣣ । सः꣢ । द꣣भ्यते । ज꣡नः꣢꣯ ॥१८५॥

Mantra without Swara
यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । न किः स दभ्यते जनः ॥

यम् । रक्षन्ति । प्रचेतसः । प्र । चेतसः । वरुणः । मित्रः । मि । त्रः । अर्यमा । न । किः । सः । दभ्यते । जनः ॥१८५॥

Samveda - Mantra Number : 185
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। ऋचः इन्द्रदेवताकत्वाद् इन्द्रः सम्बोध्यः। हे इन्द्र मदीय अन्तरात्मन् ! (यम्) जनम् (प्रचेतसः) हृदि सदा जागरूकाः। प्रकृष्टं चेतः संज्ञानं जागरूकत्वं वा येषां ते। चिती संज्ञाने। (वरुणः) पापनिवारको गुणः। यो वारयति पापादीनि स वरुणः। वृञ् आवरणे चुरादिः, कृवृदारिभ्य उनन् उ० ३।५३ इति उनन् प्रत्ययः. (मित्रः) मित्रतायाः गुणः। डुमिञ् प्रक्षेपणे। मिनोति दोषादीन् प्रक्षिपति यो येन वा स मित्रः। अमिचिमिशसिभ्यः क्त्रः उ० ४।१६५ इति क्त्रः प्रत्ययः। (अर्यमा) न्यायकारितायाः गुणश्च। यः अर्यान् श्रेष्ठान् मिमीते यथार्थतया परिच्छिनत्ति सोऽर्यमा। अर्योपपदाद् माङ् माने धातोः श्वन्नुक्षन्पूषन्० उ० १।१५९ इति कनिन्प्रत्ययान्तो निपातः। (रक्षन्ति) विपद्भ्यस्त्रायन्ते पालयन्ति च, (स जनः) असौ मनुष्यः (न किः) न कदापि (दभ्यते) हिंस्यते। दभ्नोतिः हिंसाकर्मा। निघं० २।१९ ॥ अथ द्वितीयः—राष्ट्रपरः। (यम्) इन्द्रं राजानम् (प्रचेतसः) प्रकृष्टचित्ताः, प्रकृष्टविज्ञानाः, सदा जागरूकाः (वरुणः) पाशपाणिः२, शस्त्रास्त्रयुक्तः, शत्रुनिवारकः३, सेनापतित्वे वृतः४ श्रेष्ठः सेनाध्यक्षः मित्रः देशे विदेशे च मैत्रीसन्देशप्रसारकः मैत्रीसचिवः, (अर्यमा५) न्यायाधीशो न्यायमन्त्री वा (रक्षन्ति) त्रायन्ते (सः) असौ (जनः) जातो राजा (नकिः) न कदापि (दभ्यते) पराजीयते हिंस्यते वा ॥१॥६ अत्र श्लेषालङ्कारः ॥१॥
Essence
सर्वैर्मनुष्यैः पापनिवारणस्य मैत्र्या न्यायस्य च गुणाः स्वहृदये धारणीयाः, नृपतिना च स्वराष्ट्रे सेनाध्यक्षत्व-मैत्रीसचिवत्व-न्यायाधीशत्वादिविविधपदेषु सुयोग्या एव जना नियोक्तव्याः, येन शत्रूच्छेदः प्रजोत्कर्षश्च सततं सिध्येताम् ॥१॥
Subject
तत्राद्ये मन्त्रे मित्रवरुणार्यमविषयमाह।
Footnote
१. ऋ० १।४१।१, देवता मित्रवरुणार्यमणः। नकिः इत्यत्र नूचित् इति पाठः। २. शतेन पाशैरभिधेहि वरुणैनं मा ते मोच्यनृतवाङ् नृचक्षः। आस्तां जाल्म उदरं श्रसयित्वा कोश इवाबन्धः परिकृत्यमानः। अथ० ४।१६।७। ३. वारयति शत्रूनिति वरुणः। वृञ् आवरणे, चुरादिः। ४. व्रियते इति वरुणः। वृञ् वरणे। ५. (अर्यमा) यः पक्षपातं विहाय न्यायं कर्तु समर्थः इति ऋ० १।४१।१ भाष्ये, योऽर्यान् मन्यते स न्यायाधीशः इति च य० ३६।९ भाष्ये द०। ६. दयानन्दर्षिर्ऋग्वेदभाष्येऽस्य मन्त्रस्य व्याख्याने भावार्थमेवमाह—“मनुष्यैः (वरुणः) सर्वोत्कृष्टः सेनासभाध्यक्षः (मित्रः) सर्वमित्रो दूतोऽध्यापकः उपदेष्टा (अर्यमा) धार्मिको न्यायाधीशश्च कर्तव्यः। तेषां सकाशाद् रक्षणादीनि प्राप्य सर्वान् शत्रून् शीघ्रं हत्वा चक्रवर्तिराज्यं प्रशास्य सर्वहितं संपादनीयम्” इति ।