Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1849

1875 Mantra
Devata- इन्द्रः Rishi- अप्रतिरथ ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ꣣शुः꣡ शिशा꣢꣯नो वृष꣣भो꣢꣫ न भी꣣मो꣡ घ꣢नाघ꣣नः꣡ क्षोभ꣢꣯णश्चर्षणी꣣ना꣢म् । स꣣ङ्क्र꣡न्द꣢नोऽनिमि꣣ष꣡ ए꣢कवी꣣रः꣢ श꣣त꣢ꣳ सेना꣢꣯ अजयत्सा꣣क꣡मिन्द्रः꣢꣯ ॥१८४९॥

आ꣣शुः꣢ । शि꣡शा꣢꣯नः । वृ꣣षभः꣢ । न । भी꣣मः꣢ । घ꣣नाघनः꣢ । क्षो꣡भ꣢꣯णः । च꣣र्षणीना꣢म् । सं꣣क्र꣡न्द꣢नः । स꣣म् । क्र꣡न्द꣢꣯नः । अ꣣निमिषः꣢ । अ꣢ । निमिषः꣢ । ए꣣कवीरः꣢ । ए꣣क । वीरः꣢ । श꣣त꣢म् । से꣡नाः꣢꣯ । अ꣣जयत् । साक꣢म् । इ꣡न्द्रः꣢꣯ ॥१८४९॥

Mantra without Swara
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । सङ्क्रन्दनोऽनिमिष एकवीरः शतꣳ सेना अजयत्साकमिन्द्रः ॥

आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् । संक्रन्दनः । सम् । क्रन्दनः । अनिमिषः । अ । निमिषः । एकवीरः । एक । वीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥१८४९॥

Samveda - Mantra Number : 1849
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आशुः) शीघ्रकारी, (शिशानः वृषभः न) तीक्ष्णशृङ्गो वृष इव (भीमः) विघ्नकारिणां भयजनकः, (घनाघनः२) द्वेष्टॄणां हन्ता, (चर्षणीनाम्) बाधकानां मनुष्याणां (क्षोभणः) विक्षोभयिता, (सङ्क्रन्दनः) शत्रुरोदकः, (अनिमिषः) निर्निमेषः सन् लक्ष्ये बद्धदृष्टिः, (एकवीरः) अद्वितीयः शूरः इन्द्रः सेनापतिरिव जीवात्मा (साकम्) युगपत् (शतं सेनाः) शतसंख्यकाः आभ्यन्तर्यो बाह्याश्च चमूः (अजयत्) जयति ॥१॥३ अत्रोपमालङ्कारो वीरो रसश्च ॥१॥
Essence
यथा राष्ट्रे वीरः सेनापतिः स्वपराक्रमेण सर्वाः शत्रुसेना जयति तथैव देहे जीवात्माऽऽभ्यन्तरे बाह्ये च देवासुरसंग्रामे सर्वान् विघ्नकारिणो विजित्य स्वसाम्राज्यं स्थापयेत् ॥१॥
Subject
तत्रादौ सेनापतिदृष्टान्तेन जीवात्मा वर्ण्यते।