Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1848

1875 Mantra
Devata- वेनः Rishi- वेनो भार्गवः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
द्र꣣प्सः꣡ स꣢मु꣣द्र꣢म꣣भि꣡ यज्जिगा꣢꣯ति꣣ प꣢श्य꣣न्गृ꣡ध्र꣢स्य꣣ च꣡क्ष꣢सा꣣ वि꣡ध꣢र्मन् । भा꣣नुः꣢ शु꣣क्रे꣡ण꣢ शो꣣चि꣡षा꣢ चका꣣न꣢स्तृ꣣ती꣡ये꣢ चक्रे꣣ र꣡ज꣢सि प्रि꣣या꣡णि꣢ ॥१८४८॥

द्र꣣प्सः꣢ । स꣣मुद्र꣢म् । स꣢म् । उद्र꣢म् । अ꣣भि꣢ । यत् । जि꣡गा꣢꣯ति । प꣡श्य꣢꣯न् । गृ꣡ध्र꣢꣯स्य । च꣡क्ष꣢꣯सा । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । भानुः꣢ । शु꣣क्रे꣡ण꣢ । शो꣣चि꣡षा꣢ । च꣣कानः꣢ । तृ꣣ती꣡ये꣢ । च꣣क्रे । र꣡ज꣢꣯सि । प्रि꣣या꣡णि꣢ ॥१८४८॥

Mantra without Swara
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥

द्रप्सः । समुद्रम् । सम् । उद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विधर्मन् । वि । धर्मन् । भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥१८४८॥

Samveda - Mantra Number : 1848
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्रप्सः) जलबिन्दुवद् अणुपरिमाणो जीवात्मा (यत्) यदा (समुद्रम् अभि) आनन्दरसागारं परमात्मानं प्रति (जिगाति) गच्छति। [जिगातिः गतिकर्मा। निघं० २।१४।] तदा (विधर्मन्) विधर्मणि विशेषेण धारके मोक्षलोके स जीवस्तं परमात्मानम् (गृध्रस्य चक्षसा) गृध्रस्य इव तीव्रदृष्ट्या (पश्यन्) अवलोकयन् भवति। (तृतीये रजसि) तृतीये धामनि मोक्षलोके (शुक्रेण) पवित्रेण (शोचिषा) तेजसा (चकानः) दीप्यमानः [कनी दीप्तिकान्तिगतिषु, भ्वादिः।] (भानुः) परमात्मसूर्यः, तस्य जीवात्मनः (प्रियाणि) आनन्दवृष्टिप्रदानादीनि अभीप्सितानि (चक्रे) साधयति ॥३॥ अस्मिन् मन्त्रे परमात्मनि भानुत्वारोपाद् रूपकालङ्कारः ॥३॥
Essence
मोक्षाय प्रयतमानो जीवो रससेक्तारं तेजस्विनं जगदीश्वरं प्राप्य रससिक्तस्तेजोमयश्च जायते ॥३॥ अस्मिन् खण्डे मनुष्याकाङ्क्षाया वेदवाचो ब्रह्मानन्दधारायाः प्राणस्य जीवात्मनो मोक्षप्राप्तेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ मोक्षावस्थायां जीवात्मनः परमात्मदर्शनमुच्यते।