Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1847

1875 Mantra
Devata- वेनः Rishi- वेनो भार्गवः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ऊ꣣र्ध्वो꣡ ग꣢न्ध꣣र्वो꣢꣫ अधि꣣ ना꣡के꣢ अस्थात्प्र꣣त्य꣢ङ्चि꣣त्रा꣡ बिभ्र꣢꣯द꣣स्या꣡यु꣢धानि । व꣡सा꣢नो꣣ अ꣡त्क꣢ꣳ सुर꣣भिं꣢ दृ꣣शे꣢ कꣳ स्वा३र्ण꣡ नाम꣢꣯ जनत प्रि꣣या꣡णि꣢ ॥१८४७॥

ऊ꣣र्ध्वः꣢ । ग꣡न्धर्वः꣢ । अ꣡धि꣢꣯ । ना꣡के꣢꣯ । अ꣣स्थात् । प्रत्य꣢ङ् । प्र꣣ति । अ꣢ङ् । चि꣣त्रा । बि꣡भ्र꣢꣯त् । अ꣣स्य । आ꣡यु꣢꣯धानि । व꣡सा꣢꣯नः । अ꣡त्क꣢꣯म् । सु꣣रभि꣢म् । सु꣣ । रभि꣢म् । दृ꣣शे꣢ । कम् । स्वः꣢ । न । ना꣡म꣢꣯ । ज꣣नत । प्रिया꣡णि꣢ ॥१८४७॥

Mantra without Swara
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि । वसानो अत्कꣳ सुरभिं दृशे कꣳ स्वा३र्ण नाम जनत प्रियाणि ॥

ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । प्रत्यङ् । प्रति । अङ् । चित्रा । बिभ्रत् । अस्य । आयुधानि । वसानः । अत्कम् । सुरभिम् । सु । रभिम् । दृशे । कम् । स्वः । न । नाम । जनत । प्रियाणि ॥१८४७॥

Samveda - Mantra Number : 1847
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ऊर्ध्वः) जागरूकः उन्नतश्च, (गन्धर्वः) गाः वाचः इन्द्रियाणि वा धरतीति तादृशो जीवात्मा (नाके अधि) मोक्षलोके (अस्यात्) तिष्ठति। वेनः (कान्तः) परमेश्वरः (अस्य) एतस्य जीवात्मनः (प्रत्यङ्) अभिमुखम् (चित्रा) चित्राणि विविधानि (आयुधा) आयुधानि रक्षासाधनानि (बिभ्रत्) धारयन् भवति। तदा मोक्षावस्थायां जीवात्मा (दृशे कम्) परमात्मदर्शनाय किल (सुरभिम्) सद्गुणैः सौरभमयं (अत्कम्) स्वरूपम् (वसानः) धारयन् (स्वः न) सूर्य इव (प्रियाणि नाम) प्रियाणि नामानि तेजांसि (जनत) प्रकटयति ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
मुक्तावस्थायां जीवात्मनो लौकिक्य आकाङ्क्षाः समाप्यन्ते, तेजोमयः स परमात्मसाहचर्येण दिव्यमानन्दमनुभवति ॥२॥
Subject
अथ मुक्तावस्थायां जीवात्मनः स्वरूपं वर्णयति।