Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1846

1875 Mantra
Devata- वेनः Rishi- वेनो भार्गवः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ना꣡के꣢ सुप꣣र्ण꣢꣫मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा । हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣣ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥१८४६॥

ना꣡के꣢꣯ । सु꣣पर्ण꣢म् । सु꣣ । पर्ण꣢म् । उ꣡प꣢꣯ । यत् । प꣡त꣢꣯न्तम् । हृ꣣दा꣢ । वे꣡न꣢꣯न्तः । अ꣣भ्य꣡चक्षत । अ꣣भि । अ꣣च꣢꣯क्षत । त्वा꣣ । हि꣡र꣢꣯ण्यपक्षम् । हि꣡र꣢꣯ण्य । प꣣क्षम् । व꣡रु꣢꣯ण्स्य । दू꣣त꣢म् । य꣣म꣡स्य꣢ । यो꣡नौ꣢꣯ । श꣣कुन꣢म् । भु꣣रण्यु꣢म् ॥१८४६॥

Mantra without Swara
नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥

नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुण्स्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥१८४६॥

Samveda - Mantra Number : 1846
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे वेन ! हे परमेशकामनामय जीवात्मन् ! (हिरण्यपक्षम्) ज्ञानकर्मरूपस्वर्णिमपक्षयुक्तम्, (वरुणस्य दूतम्) वरणीयस्य मनसः सन्मार्गे प्रेरकम्। [दु गतौ, भ्वादिः, ‘दुतनिभ्यां दीर्घश्च’ उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (यमस्य) नियन्तुः प्राणस्य (योनौ) गृहे, (देहे) इत्यर्थः (शकुनम्) शक्तिशालिनम्। [शक्लृ शक्तौ स्वादिः, ‘शकेरुनोन्तोन्त्युनयः’ उ० ३।४९ इति उनप्रत्ययः।] (भुरण्युम्) देहस्य धारयितारं पोषकं च। [भुरण धारणपोषणयोः, कण्ड्वादिः, ततो बाहुलकादौणादिको युच् प्रत्ययः।] (सुपर्णम्) अष्टाङ्गयोगरूप- शुभपर्णोपेतम्, नाके मोक्षनिमित्ते (उप पतन्तम्) प्रयतमानम् (त्वा) त्वाम् (यत्) यदा (अभ्यचक्षत) प्रभुप्रेमिणः पश्यन्ति, तदा ते (हृदा) हृदयेन (वेनन्तः) त्वां कामयमानाः जायन्ते ॥१॥
Essence
देहाधिष्ठाता जीवात्माऽध्यात्मरुचिः सन्नष्टाङ्गयोगाभ्यासेन मोक्षमधिगन्तुं प्रभवति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३२० क्रमाङ्के सूर्यदृष्टान्तेन परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।