Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1845

1875 Mantra
Devata- अग्निः Rishi- सुपर्णः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣य꣢ꣳ स꣣ह꣢स्रा꣣ प꣡रि꣢ यु꣣क्ता꣡ वसा꣢꣯नः꣣ सू꣡र्य꣢स्य भा꣣नुं꣢ य꣣ज्ञो꣡ दा꣢धार । स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ ध꣣र्त्ता꣢ दि꣣वो꣡ भुवन꣢꣯स्य वि꣣श्प꣡तिः꣢ ॥१८४५

अ꣢य꣣म् । स꣣ह꣡स्रा꣢ । प꣡रि꣢꣯ । यु꣣क्ता꣡ । व꣡सा꣢꣯नः । सू꣡र्य꣢꣯स्य । भा꣣नु꣢म् । य꣣ज्ञः꣢ । दा꣣धार । सहस्रदाः꣢ । स꣣हस्र । दाः꣢ । श꣢तदाः꣢ । श꣣त । दाः꣢ । भू꣣रिदा꣡वा꣢ । भू꣣रि । दा꣡वा꣢꣯ । ध꣣र्ता꣢ । दि꣣वः꣢ । भु꣡व꣢꣯नस्य । वि꣣श्प꣡तिः꣢ ॥१८४५॥

Mantra without Swara
अयꣳ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार । सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥१८४५

अयम् । सहस्रा । परि । युक्ता । वसानः । सूर्यस्य । भानुम् । यज्ञः । दाधार । सहस्रदाः । सहस्र । दाः । शतदाः । शत । दाः । भूरिदावा । भूरि । दावा । धर्ता । दिवः । भुवनस्य । विश्पतिः ॥१८४५॥

Samveda - Mantra Number : 1845
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यज्ञः) यजनीयः एषोऽग्निर्जगदीश्वरः (युक्ता) युक्तानि आकर्षणबलेन परस्परसम्बद्धानि, (सहस्रा) सहस्राणि नक्षत्राणि (वसानः) निवासयन् (सूर्यस्य) आदित्यस्य (भानुम्) तेजः (दाधार) दधार, धारयति। [‘तुजादीनां दीर्घोऽभ्यासस्य’। अ० ६।१।७ इत्यभ्यासदीर्घः।] अयम् जगदीश्वरः (सहस्रदाः) सहस्रपदार्थानां दाता, (शतदा) शतरत्नानां दाता, (भूरिदावा) भूरेः प्रचुरस्य दुग्धदधिनवनीतादेः विद्याधर्मादेश्च दाता, (दिवः धर्ता) द्युलोकस्य धारयिता, (भुवनस्य) ब्रह्माण्डस्य च (विश्पतिः) प्रजापतिः अस्ति ॥३॥
Essence
जगदीश्वर एवास्माकं सौरमण्डलमसंख्यानि नक्षत्राणि निखिलमेव ब्रह्माण्डं धारयन्नस्मभ्यं सर्वाः सम्पदः प्रयच्छति ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।