Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1842

1875 Mantra
Devata- वायुः Rishi- उलो वातायनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢द꣣दो꣡ वा꣢त ते गृ꣣हे꣢३꣱ऽमृ꣢तं꣣ नि꣡हि꣢तं꣣ गु꣡हा꣢ । त꣡स्य꣢ नो देहि जी꣣व꣡से꣢ ॥१८४२॥

य꣢त् । अ꣣दः꣢ । वा꣣त । ते । गृहे꣢ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । नि꣡हि꣢꣯तम् । नि । हि꣣तम् । गु꣡हा꣢꣯ । त꣡स्य꣢꣯ । नः꣣ । धेहि । जीव꣡से꣢ ॥१८४२॥

Mantra without Swara
यददो वात ते गृहे३ऽमृतं निहितं गुहा । तस्य नो देहि जीवसे ॥

यत् । अदः । वात । ते । गृहे । अमृतम् । अ । मृतम् । निहितम् । नि । हितम् । गुहा । तस्य । नः । धेहि । जीवसे ॥१८४२॥

Samveda - Mantra Number : 1842
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वात) जीवात्मसहचरित प्राण ! (यत् ते गृहे) यत् तव देहरूपे सदने (गुहा) हृदयगुहायाम्। [अत्र ‘सुपां सुलुक्’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (अदः) एतत् (अमृतम्) अक्षयं परमात्मरूपं ज्योतिः (निहितम्) स्थितम् अस्ति, (जीवसे) जीवनाय (तस्य नः धेहि) तत् अस्मान् प्रापय ॥३॥
Essence
प्राणायामेन प्रकाशावरणक्षये मनसि धारणासु योग्यताप्राप्त्या प्रत्याहारधारणाध्यानसमाधिभिर्हृदयनिहितं परमात्मज्योतिः प्रकाशते ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।