Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1839

1875 Mantra
Devata- आपः Rishi- त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣢स्मा꣣ अ꣡रं꣢ गमाम वो꣣ य꣢स्य꣣ क्ष꣡या꣢य꣣ जि꣡न्व꣢थ । आ꣡पो꣢ ज꣣न꣡य꣢था च नः ॥१८३९॥

त꣡स्मै꣢꣯ । अ꣡र꣢꣯म् । ग꣣माम । वः । य꣡स्य꣢꣯ । क्ष꣡या꣢꣯य । जि꣡न्व꣢꣯थ । आ꣡पः꣢꣯ । ज꣣न꣡य꣢थ । च꣣ । नः ॥१८३९॥

Mantra without Swara
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ । आपः । जनयथ । च । नः ॥१८३९॥

Samveda - Mantra Number : 1839
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (आपः) ब्रह्मानन्दधाराः (तस्मै) प्रयोजनाय, वयम् (वः) युष्मान् (अरम्) पर्याप्तम् (गमाम) प्राप्नुयाम। [गच्छतेर्विध्यर्थे लुङि ‘बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडागमाभावः।] (यस्य) अभ्युदयनिःश्रेयसरूपस्य प्रयोजनस्य (क्षयाय) अस्मासु निवासाय। [क्षि निवासगत्योः ‘क्षयो निवासे’ अ० ६।१।२०१ इत्याद्युदात्तः।] (यूयम् जिन्वथ) गतिं कुरुथ। [जिन्वतिः गतिकर्मा। निघं० २।१४।] यूयम् (नः) अस्मान् (जनयथ च) नवजीवनेनानुप्राणितान् कुरुथ च ॥३॥२
Essence
परमात्मोपासनेन यो दिव्यानन्दः प्राप्यते तेन मनुष्यः स्वजीवने परमाभ्युदयं निःश्रेयसं चापि प्राप्तुं प्रभवति ॥३॥
Subject
अथ पुनरपि ब्रह्मानन्दधाराविषय एवोच्यते।