Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1838

1875 Mantra
Devata- आपः Rishi- त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो꣡ वः꣢ शि꣣व꣡त꣢मो꣣ र꣢स꣣स्त꣡स्य꣢ भाजयते꣣ह꣡ नः꣢ । उ꣣शती꣡रि꣢व मा꣣त꣡रः꣢ ॥१८३८॥

यः । वः꣣ । शिव꣡त꣢मः । र꣡सः꣢꣯ । त꣡स्य꣢꣯ । भा꣣जयत । इह꣡ । नः꣣ । उशतीः꣢ । इ꣣व । मात꣡रः꣢ ॥१८३८॥

Mantra without Swara
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥

यः । वः । शिवतमः । रसः । तस्य । भाजयत । इह । नः । उशतीः । इव । मातरः ॥१८३८॥

Samveda - Mantra Number : 1838
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे आपः ब्रह्मानन्दधाराः ! (यः वः) युष्माकम् (शिवतमः) अतिशयेन शान्तिदायकः (रसः) सारतत्त्वम् अस्ति (तस्य इह) जीवने (नः) अस्मान् (भाजयत) भागिनः कुरुत। कथमिव ? (उशतीः) उशत्यः कामयमानाः स्नेहं कुर्वाणाः। [वश कान्तौ, शतरि स्त्रियां पूर्वसवर्णदीर्घः।] (मातरः इव) जनन्यो यथा स्वकीयं स्तनरसं सन्तानान् पाययन्ति तद्वत् ॥२॥२ अत्रोपमालङ्कारः ॥२॥
Essence
मातुः स्तन्ये यन्माधुर्यं तदेव ब्रह्मणः सकाशात् प्राप्तास्वानन्दधारास्विति विचक्षणा अनुभवन्ति ॥२॥
Subject
अथ ब्रह्मानन्दधाराणां रसं प्रार्थयते।