Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1835

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- गायत्री Swara- षड्जः
Mantra with Swara
शि꣡क्षे꣢यमस्मै꣣ दि꣡त्से꣢य꣣ꣳ श꣡ची꣢पते मनी꣣षि꣡णे꣢ । य꣢द꣣हं꣡ गोप꣢꣯तिः꣣ स्या꣢म् ॥१८३५॥

शि꣡क्षे꣢꣯यम् । अ꣣स्मै । दि꣡त्से꣢꣯यम् । श꣡ची꣢꣯पते । श꣡ची꣢꣯ । प꣣ते । मनीषि꣡णे꣢ । यत् । अ꣣ह꣢म् । गो꣡प꣢꣯तिः । गो । प꣣तिः । स्या꣢म् ॥१८३५॥

Mantra without Swara
शिक्षेयमस्मै दित्सेयꣳ शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥

शिक्षेयम् । अस्मै । दित्सेयम् । शचीपते । शची । पते । मनीषिणे । यत् । अहम् । गोपतिः । गो । पतिः । स्याम् ॥१८३५॥

Samveda - Mantra Number : 1835
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे शचीपते सर्वशक्तिमन् जगदीश ! (यदि अहम्) अहं चेत् (गोपतिः) गवां भुवां धेनूनां वा (पतिः) स्वामी (स्याम्) भवेयम्, तदा ताः भुवो धेनूर्वा (दित्सेयम्) दातुमिच्छेयम्, (अस्मै मनीषिणे) एतस्मै मेधाविने विदुषे (शिक्षेयम्) दद्यां च। [शिक्षतिर्दानकर्मा। निघं० ३।२०] ॥२॥
Essence
धनपतीनामिदं कर्तव्यं यत्ते यस्य धनस्य स्वामिनो भवेयुस्तस्य धनस्य न्यूनान्न्यूनं शतांशं सत्पात्रेभ्योऽवश्यं दद्युः ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।