Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1834

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्वमीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣢ इ꣢त् । स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥१८३४॥

य꣢त् । इ꣣न्द्र । अ꣣ह꣢म् । य꣡था꣢꣯ । त्वम् । ई꣡शी꣢꣯य । व꣡स्वः꣢꣯ । ए꣡कः꣢꣯ । इत् । स्तो꣣ता꣢ । मे꣣ । गो꣡स꣢꣯खा । गो । स꣣खा । स्यात् ॥१८३४॥

Mantra without Swara
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । स्तोता मे गोसखा स्यात् ॥

यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् । स्तोता । मे । गोसखा । गो । सखा । स्यात् ॥१८३४॥

Samveda - Mantra Number : 1834
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर आचार्य राजन् वा ! (यत्) यदि (यथा त्वम्) यथा त्वमसि तथैव (अहं वस्वः) विद्याधनस्य भौतिकधनस्य वा (एकः इत्) अद्वितीयः एव (ईशीय) ईश्वरो भवेयम्, तर्हि (मे) मम (स्तोता) प्रशंसकः (गोसखा) गवाम् दिव्यप्रकाशानाम् निखिलवाङ्मयानां धेनूनां वा सखा स्वामी (स्यात्) भवेत् ॥१॥
Essence
यद्यहं जगदीशवद् दिव्यधनानां सत्याहिंसायोगसिद्ध्यादीनां स्वामी भवेयं तर्हि सत्पात्रेभ्यो दिव्यधनानि दद्याम्, यद्यहमाचार्यवद् विद्याधनानां स्वामी भवेयं तर्हि शिष्येभ्यो विविधा विद्या अध्यापयेयम्, यद्यहं भूपतिरिव रजतसुवर्णगवादिधनाधीशो भवेयं तर्हि निर्धनेभ्यो रजतसुवर्णगवादिधनानि वितरेयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १२२ क्रमाङ्के व्याख्यातपूर्वा। धनपतिर्भूत्वाऽहं कि कुर्यामित्याह।