Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1831

1875 Mantra
Devata- अग्निः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣢꣫र्ज्योति꣣र्ज्यो꣡ति꣢र꣣ग्नि꣢꣫रिन्द्रो꣣ ज्यो꣢ति꣣र्ज्यो꣢ति꣣रि꣡न्द्रः꣢ । सू꣢र्यो꣣ ज्यो꣢ति꣣र्ज्यो꣢तिः꣣ सू꣡र्यः꣢ ॥१८३१

अ꣣ग्निः꣢ । ज्यो꣡तिः꣢꣯ । ज्यो꣡तिः꣢꣯ । अ꣣ग्निः꣢ । इ꣡न्द्रः꣢꣯ । ज्यो꣡तिः꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्द्रः꣢꣯ । सू꣡र्यः꣢꣯ । ज्यो꣡तिः꣢꣯ । ज्यो꣡तिः꣢꣯ । सू꣡र्यः꣢꣯ ॥१८३१॥

Mantra without Swara
अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः । सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥१८३१

अग्निः । ज्योतिः । ज्योतिः । अग्निः । इन्द्रः । ज्योतिः । ज्योतिः । इन्द्रः । सूर्यः । ज्योतिः । ज्योतिः । सूर्यः ॥१८३१॥

Samveda - Mantra Number : 1831
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) पार्थिवो वह्निः (ज्योतिः) एकं ज्योतिरस्ति (ज्योतिः) तज्ज्योतिरेव (अग्निः) वस्तुतः अग्निरुच्यते। (इन्द्रः) विद्युत् (ज्योतिः) एकं ज्योतिरस्ति, (ज्योतिः) तज्ज्योतिः एव (इन्द्रः) वस्तुतो विद्युदस्ति। (सूर्यः) आदित्यः (ज्योतिः) एकं ज्योतिरस्ति, (ज्योतिः) तज्ज्योतिः एव (सूर्यः) वस्तुतः सूर्योऽस्ति ॥१॥
Essence
यद्यपि वह्निविद्युत्सूर्याः पृथिव्यप्तेजोवाय्वाकाशरूपपञ्चतत्त्वात्मकाः सन्ति तथापि वह्नेर्वह्नित्वं विद्युतो विद्युत्वं सूर्यस्य च सूर्यत्वं ज्योतिष्कारणादेव वर्तते, ज्योतिर्विना तेषु किमपि महत्त्वं नावशिष्येत। तथैव मनुष्यस्यापि मनुष्यत्वमध्यात्मज्योतिषः कारणादेव। अतः सर्वैर्मानवैरध्यात्मज्योतिषः सञ्चयस्य प्रयत्नो विधेयः ॥१॥
Subject
अथ ज्योतिषो महत्त्वं वर्णयति।