Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1830

1875 Mantra
Devata- अग्निः Rishi- मृगः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
गा꣣यत्रं꣡ त्रैष्टु꣢꣯भं꣣ ज꣢ग꣣द्वि꣡श्वा꣢ रू꣣पा꣢णि꣣ स꣡म्भृ꣢ता । दे꣣वा꣡ ओका꣢꣯ꣳसि चक्रि꣣रे꣢ ॥१८३०

गा꣣यत्र꣢म् । त्रै꣡ष्टु꣢꣯भम् । त्रै । स्तु꣣भम् । ज꣡ग꣢꣯त् । वि꣡श्वा꣢꣯ । रू꣣पा꣡णि꣢ । स꣡म्भृ꣢꣯ता । सम् । भृ꣣ता । देवाः꣢ । ओ꣡का꣢꣯ꣳसि । च꣣क्रिरे꣢ ॥१८३०॥

Mantra without Swara
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता । देवा ओकाꣳसि चक्रिरे ॥१८३०

गायत्रम् । त्रैष्टुभम् । त्रै । स्तुभम् । जगत् । विश्वा । रूपाणि । सम्भृता । सम् । भृता । देवाः । ओकाꣳसि । चक्रिरे ॥१८३०॥

Samveda - Mantra Number : 1830
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गायत्रं) गायत्रीछन्दस्कं साम, (त्रैष्टुभम्) त्रिष्टुप्छन्दस्कं साम, (जगत्) जगतीछन्दस्कं साम च, एषु (विश्वा रूपाणि) इतरेषामपि साम्नां सर्वाणि रूपाणि (सम्भृता) सम्भृतानि समाविष्टानि सन्ति। य एतानि सामानि गायति तस्मिन् (देवाः) दिव्यगुणाः (ओकांसि) गृहाणि (चक्रिरे) कुर्वन्ति ॥३॥
Essence
अष्टाक्षरः पादो गायत्रः पादः, एकादशाक्षरः पादस्त्रैष्टुभः पादः, द्वादशाक्षरः पादो जागतः पादः। प्रायः सर्वाणि वैदिकच्छन्दांस्येतैरेव पादैः स्थितिं लभन्ते। एतेषु केनचिदेकेन द्वाभ्यां त्रिभिर्वा पादैर्ग्रथितास्वृक्षु सामगानेन गातुरन्तरात्ममनेके दिव्यगुणाः समाविशन्ति ॥३॥
Subject
अथ सामगानस्य महत्त्वमाह।