Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1828

1875 Mantra
Devata- अग्निः Rishi- मृगः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
न꣡मः꣢ स꣣खि꣡भ्यः꣢ पूर्व꣣स꣢द्भ्यो꣣ न꣡मः꣢ साकन्नि꣣षे꣡भ्यः꣢ । यु꣣ञ्जे꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दीम् ॥१८२८

न꣡मः꣢꣯ । स꣣खि꣡भ्यः꣢ । स꣣ । खि꣡भ्यः꣢꣯ । पू꣣र्वस꣡द्भ्यः꣢ । पू꣣र्व । स꣡द्भ्यः꣢꣯ । न꣡मः꣢꣯ । सा꣣कन्निषे꣡भ्यः꣢ । सा꣣कम् । निषे꣡भ्यः꣢ । यु꣣ञ्जे꣢ । वा꣡च꣢꣯म् । श꣡त꣣प꣢दीम् । श꣣त꣢ । प꣣दीम् ॥१८२८॥

Mantra without Swara
नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः । युञ्जे वाचꣳ शतपदीम् ॥१८२८

नमः । सखिभ्यः । स । खिभ्यः । पूर्वसद्भ्यः । पूर्व । सद्भ्यः । नमः । साकन्निषेभ्यः । साकम् । निषेभ्यः । युञ्जे । वाचम् । शतपदीम् । शत । पदीम् ॥१८२८॥

Samveda - Mantra Number : 1828
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पूर्वसद्भ्यः) पूर्वं सीदन्ति स्म ये ते पूर्वसदः तेभ्यः (सखिभ्यः) समानख्यानेभ्यः सुहृद्भ्यः (नमः) नमस्कारोऽस्तु, (साकंनिषेभ्यः) साकं सह निषः स्थितिः येषां तेभ्यः सहवर्तिभ्यः सखिभ्यः सुहृद्भ्यः (नमः) नमोऽस्तु। अग्निः अग्निवत् तेजस्वी अहम् (शतपदीम्)१ अनेकपादयुक्तां (वाचम्) वेदवाचम्। [ऋक् शतपदी ष० ब्रा० १।४।] (युञ्जे) प्रयुञ्जे ॥१॥
Essence
येऽस्मत्पूर्वजा वृद्धाः सन्ति ये च सहयोगिनः सखायः सन्ति तेभ्यः सर्वेभ्योऽपि यथायोग्यं सत्कारः प्रदेयः। धार्मिकेषु कृत्येषु परमात्मस्तुतौ च सदा वेदमन्त्राः प्रयोक्तव्याः ॥१॥
Subject
तत्रादौ नमस्कारमाह।