Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1827

1875 Mantra
Devata- विश्वे देवाः Rishi- अवत्सारः काश्यपः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣ग्नि꣡र्जा꣢गार꣣ त꣡मृचः꣢꣯ कामयन्ते꣣ऽग्नि꣡र्जा꣢गार꣣ त꣢मु꣣ सा꣡मा꣢नि यन्ति । अ꣣ग्नि꣡र्जा꣢गार꣣ त꣢म꣣य꣡ꣳ सोम꣢꣯ आह꣣ त꣢वा꣣ह꣡म꣢स्मि स꣣ख्ये꣡ न्यो꣢काः ॥१८२७॥

अ꣣ग्निः꣢ । जा꣣गार । त꣢म् । ऋ꣡चः꣢꣯ । का꣣मयन्ते । अग्निः꣢ । जा꣣गार । त꣢म् । उ꣣ । सा꣡मा꣢꣯नि । य꣣न्ति । अग्निः꣢ । जा꣣गार । त꣢म् । अ꣣य꣢म् । सो꣡मः꣢꣯ । आ꣣ह । त꣡व꣢꣯ । अ꣣ह꣢म् । अ꣢स्मि । सख्ये꣢ । स꣣ । ख्ये꣢ । न्यो꣢काः । नि । ओ꣣काः ॥१८२७॥

Mantra without Swara
अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयꣳ सोम आह तवाहमस्मि सख्ये न्योकाः ॥

अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । उ । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । स । ख्ये । न्योकाः । नि । ओकाः ॥१८२७॥

Samveda - Mantra Number : 1827
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) अग्निवत् तेजस्वी विद्वान् (जागार) जागरूको भवति, (तम् ऋचः) तम् ऋङ्मन्त्राः (कामयन्ते) अभिलषन्ति। (अग्निः) अग्निवत् पुरुषार्थी विद्वान् (जागार) जागरूको भवति, (तम्) तमेव (सामानि) साममन्त्राः सामगानानि वा (यन्ति) साहाय्याय प्राप्नुवन्ति। (अग्निः) अग्निवत् उन्नतिशीलो विद्वान् (जागार) जागरूको भवति, (तम्) विद्वांसम् (अयं सोमः) एष जगदीश्वरः (आह) ब्रूते, यत् (अहम् तव सख्ये) त्वदीये सखित्वे (न्योकाः) कृतगृहः (अस्मि) वर्ते ॥१॥२
Essence
ये विद्वांसो निरलसा निर्भयाः पुरुषार्थिनोऽग्रेगन्तारः स्फूर्तिमन्तो धार्मिकाः परोपकारिणो भवन्ति त एव लोकप्रियाः सफलाश्च जायन्ते ॥१॥
Subject
अस्मिन् सूक्ते पुनर्जागरणमहत्त्वविषयमाह।