Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1826

1875 Mantra
Devata- विश्वे देवाः Rishi- अवत्सारः काश्यपः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यो꣢ जा꣣गा꣢र꣣ त꣡मृचः꣢꣯ कामयन्ते꣣ यो꣢ जा꣣गा꣢र꣣ त꣢मु꣣ सा꣡मा꣢नि यन्ति । यो꣢ जा꣣गा꣢र꣣ त꣢म꣣य꣡ꣳ सोम꣢꣯ आह꣣ त꣢वा꣣ह꣡म꣢स्मि स꣣ख्ये꣡ न्यो꣢काः ॥१८२६॥

यः꣢ । जा꣣गा꣡र꣢ । तम् । ऋ꣡चः꣢꣯ । का꣢मयन्ते । यः꣢ । जा꣣गा꣡र꣢ । तम् । उ꣣ । सा꣡मा꣢꣯नि । य꣣न्ति । यः꣢ । जा꣣गा꣡र꣢ । तम् । अ꣣य꣢म् । सो꣡मः꣢꣯ । आ꣣ह । त꣡व꣢꣯ । अ꣣ह꣢म् । अ꣣स्मि । सख्ये꣢ । स꣡ । ख्ये꣢ । न्यो꣢काः । नि । ओ꣣काः ॥१८२६॥

Mantra without Swara
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयꣳ सोम आह तवाहमस्मि सख्ये न्योकाः ॥

यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । उ । सामानि । यन्ति । यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । स । ख्ये । न्योकाः । नि । ओकाः ॥१८२६॥

Samveda - Mantra Number : 1826
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
विश्वेषु देवेषु विद्वत्सु मध्ये (यः) यो जनः (जागार) जागरूको भवति (तम् ऋचः) ऋङ्मन्त्राः (कामयन्ते) अभिलषन्ति, (यः) यो जनः (जागार) जागरूको भवति (तम् उ) तमेव (सामानि) साममन्त्राः सामगानानि वा (यन्ति) साहाय्याय प्राप्नुवन्ति। (यः) यो जनः (जागार) जागरूको भवति (तम् अयं सोमः) एष जगदीश्वरः (आह) ब्रूते यत् (अहम् तव सख्ये) त्वदीये सखित्वे (न्योकाः) कृतगृहः (अस्मि) वर्ते ॥१॥२
Essence
जनेषु योऽविद्यालस्यमोहादिनिद्रां विहाय जागर्ति स एव बाह्यजीवनेऽध्यात्मजीवने च सफलो जायते ॥१॥
Subject
तत्र जागरणस्य महत्त्वमाह।