Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1825

1875 Mantra
Devata- अग्निः Rishi- अग्निः प्रजापतिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣡रिन्द्रा꣢꣯य पवते दि꣣वि꣢ शु꣣क्रो꣡ वि रा꣢꣯जति । म꣡हि꣢षीव꣣ वि꣡ जा꣢यते ॥१८२५

अ꣣ग्निः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । दिवि꣢ । शु꣣क्रः꣢ । वि । रा꣣जति । म꣡हि꣢꣯षी । इ꣣व । वि꣢ । जा꣣यते ॥१८२५॥

Mantra without Swara
अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति । महिषीव वि जायते ॥१८२५

अग्निः । इन्द्राय । पवते । दिवि । शुक्रः । वि । राजति । महिषी । इव । वि । जायते ॥१८२५॥

Samveda - Mantra Number : 1825
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) जगन्नायकः सर्वान्तर्यामी परमेश्वरः (इन्द्राय) जीवात्मने, जीवात्मनो हितं कर्तुमित्यर्थः (पवते) तं प्राप्नोति। (शुक्रः) पवित्रः तेजस्वी असौ (दिवि) द्योतमाने द्युलोके सूर्यतारामण्डलादिषु (वि राजति) विशेषेण दीप्यते। (महिषी इव) पूजनीया माता इव च (वि जायते) प्रसिद्धो भवति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
परमेश्वरोऽस्माकं पिता माता चापि विद्यते। पिता सन्नसौ मानवदेहस्य ब्रह्माण्डस्य च व्यवस्थां करोति, मातृरूपेण च सर्वेषां लालनं पालनं च विदधाति ॥१॥
Subject
तत्र परमेश्वरस्य महत्त्वं वर्ण्यते।