Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1823

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त꣡व꣢ द्र꣣प्सो꣡ नील꣢꣯वान्वा꣣श꣢ ऋ꣣त्वि꣢य꣣ इ꣡न्धा꣢नः सिष्ण꣣वा꣡ द꣢दे । त्वं꣢ म꣣ही꣡ना꣢मु꣣ष꣡सा꣢मसि प्रि꣣यः꣢ क्ष꣣पो꣡ वस्तु꣢꣯षु राजसि ॥१८२३॥

त꣡व꣢꣯ । द्र꣣प्सः꣢ । नी꣡ल꣢꣯वान् । वा꣣शः꣢ । ऋ꣣त्वि꣡यः꣢ । इ꣡न्धा꣢꣯नः । सि꣣ष्णो । आ꣢ । द꣣दे । त्व꣢म् । म꣣ही꣡ना꣢म् । उ꣣ष꣡सा꣢म् । अ꣣सि । प्रियः꣢ । क्ष꣣पः꣢ । व꣡स्तु꣢꣯षु । रा꣣जसि ॥१८२३॥

Mantra without Swara
तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥

तव । द्रप्सः । नीलवान् । वाशः । ऋत्वियः । इन्धानः । सिष्णो । आ । ददे । त्वम् । महीनाम् । उषसाम् । असि । प्रियः । क्षपः । वस्तुषु । राजसि ॥१८२३॥

Samveda - Mantra Number : 1823
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सिष्णो२) प्रेमपाशबन्धक अग्ने जगदीश ! [षिञ् बन्धने, बाहुलकात् क्स्नुः प्रत्ययः।] (नीलवान्) नीलः नीडः आश्रयः तद्वान्, अस्मदाश्रयभूतः इत्यर्थः, (वाशः) प्रियः। [वश कान्तौ, उश्यते काम्यते इति वाशः।] (ऋत्वियः) ऋतुः आदानकालः प्राप्तोऽस्य तादृशः। [‘छन्दसि घस्’ अ० ५।१।१०६ इति ऋतुशब्दात् तदस्य प्राप्तमित्यर्थे घस् प्रत्ययः।] (इन्धानः) दीप्तिं कुर्वाणः (तव) त्वदीयः (द्रप्सः) आनन्दरसः (आददे) अस्माभिः आदीयते। (त्वम्) जगदीश्वरः (महीनाम्) महतीनाम् (उषसाम्) प्रभातसन्ध्यानाम् (प्रियः) सखा (असि) वर्तसे। त्वम् (क्षपः) क्षपायाः रात्रेः (वस्तुषु) आच्छादकेषु तमस्सु अपि (राजसि) दीप्यसे ॥२॥
Essence
यो जगदीश्वरो रात्रिषूषःसु सूर्योदयेषु मध्याह्नेषु सायंसन्ध्यासु सर्वत्र स्वमहिम्ना विराजते तेन सह सख्यं विधाय तत्सकाशान्मधुरमधुर आनन्दरसः सर्वैः प्राप्तव्यः ॥२॥
Subject
अथ परमात्मनो महिमवर्णनपूर्वकं तदानन्दविषयमाह।