Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1822

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१८२२॥

प्रः꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣡स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१८२२॥

Mantra without Swara
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥

प्रः । सः । अग्ने । तव । ऊतिभिः । सुवीराभिः । सु । वीराभिः । तरति । वाजकर्मभिः । वाज । कर्मभिः । यस्य । त्वम् । सख्यम् । स । ख्यम् । आविथ ॥१८२२॥

Samveda - Mantra Number : 1822
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक जगदीश्वर ! (सः) असौ जनः (सुवीराभिः) श्रेष्ठाः वीराः प्राप्यन्ते याभिः ताभिः (वाजकर्मभिः) बलोत्साहकारिणीभिः (तव ऊतिभिः) त्वदीयाभिः रक्षाभिः (प्र तिरति) प्रवर्द्धते, दुःखानि अत्यन्तं तरति वा, यस्य जनस्य (त्वम्) महाबलः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि, स्वीकरोषि ॥१॥
Essence
कस्तं बाधितुं दुःखयितुं वा प्रभवेद् यस्य खलु जगदीशः सखा ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १०८ क्रमाङ्के व्याख्यातपूर्वा। परमात्मनः सख्यस्य महत्त्वं वर्णयति।