Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1818

1875 Mantra
Devata- अग्निः Rishi- अग्निः पावकः Chhand- सतोबृहती Swara- पञ्चमः
Mantra with Swara
ऊ꣡र्जो꣢ नपाज्जातवेदः सुश꣣स्ति꣢भि꣣र्म꣡न्द꣢स्व धी꣣ति꣡भि꣢र्हि꣣तः꣢ । त्वे꣢꣫ इषः꣣ सं꣡ द꣢धु꣣र्भू꣡रि꣢वर्पसश्चि꣣त्रो꣡त꣢यो वा꣣म꣡जा꣢ताः ॥१८१८॥

ऊ꣡र्जः꣢꣯ । न꣣पात् । जातवेदः । जात । वेदः । सुशस्ति꣡भिः꣢ । सु꣣ । शस्ति꣡भिः꣢ । म꣡न्द꣢꣯स्व । धी꣣ति꣡भिः꣢ । हि꣣तः꣢ । त्वे꣡इति꣢ । इ꣡षः꣢꣯ । सम् । द꣣धुः । भू꣡रि꣢꣯वर्पसः । भू꣡रि꣢꣯ । व꣣र्पसः । चित्रो꣡त꣢यः । चि꣣त्र꣢ । ऊ꣣तयः । वाम꣡जा꣢ताः । वा꣣म꣢ । जा꣣ताः ॥१८१८॥

Mantra without Swara
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥

ऊर्जः । नपात् । जातवेदः । जात । वेदः । सुशस्तिभिः । सु । शस्तिभिः । मन्दस्व । धीतिभिः । हितः । त्वेइति । इषः । सम् । दधुः । भूरिवर्पसः । भूरि । वर्पसः । चित्रोतयः । चित्र । ऊतयः । वामजाताः । वाम । जाताः ॥१८१८॥

Samveda - Mantra Number : 1818
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः प्रत्युत प्रवर्धक (जातवेदः) सर्वज्ञ, सर्वान्तर्यामिन् जगत्पते ! (धीतिभिः) ध्यानक्रियाभिः (हितः) हृदि निहितस्त्वम् (सुशस्तिभिः) सुप्रशस्तिभिः, अस्मान् (मन्दस्व) मोदयस्व [मन्दतिरत्र ण्यर्थगर्भो बोध्यः] (भूरिवर्पसः) बहुरूपाः, विविधगुणा इत्यर्थः। [वर्प इति रूपनाम। निघं० ३।७।] (चित्रोतयः) चित्रा मञ्जुला ऊतिः गतिः आचारो येषां ते। [ऊतिः, अव रक्षणगत्यादिषु। ‘ऊतियूतिजूति०’ अ० ३।३।९७ इत्युदात्ते क्तिनि ‘ज्वरत्वर०’ अ० ६।४।२० इति ऊठ्।] (वामजाताः) सेवनीयात् आचार्यात् प्राप्तश्रेष्ठजन्मानः उपासकाः (त्वे) त्वयि (इषः) स्वकीयान् अभिलाषान् (संदधुः) समर्पयन्ति ॥३॥२
Essence
ये जनाः स्वात्मानं परमात्मने समर्पयन्ति ते सुप्रशस्तयः सुकीर्तिमन्तश्च जायन्ते ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।