Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1816

1875 Mantra
Devata- अग्निः Rishi- अग्निः पावकः Chhand- विष्टारपङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ꣢ग्ने꣣ त꣢व꣣ श्र꣢वो꣣ व꣢यो꣣ म꣡हि꣢ भ्राजन्ते अ꣣र्च꣡यो꣢ विभावसो । बृ꣡ह꣢द्भानो꣣ श꣡व꣢सा꣣ वा꣡ज꣢मु꣣क्थ्य꣢ꣳ३ द꣡धा꣢सि दा꣣शु꣡षे꣢ कवे ॥१८१६॥

अ꣡ग्ने꣢꣯ । त꣡व꣢꣯ । श्र꣡वः꣢꣯ । व꣡यः꣢꣯ । म꣡हि꣢꣯ । भ्रा꣣जन्ते । अर्च꣡यः꣢ । वि꣣भावसो । विभा । वसो । बृ꣡ह꣢꣯द्भानो । बृ꣡ह꣢꣯त् । भा꣣नो । श꣡व꣢꣯सा । वा꣡ज꣢꣯म् । उ꣣क्थ्य꣢म् । द꣡धा꣢꣯सि । दा꣣शु꣡षे꣢ । क꣣वे ॥१८१६॥

Mantra without Swara
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यꣳ३ दधासि दाशुषे कवे ॥

अग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो । विभा । वसो । बृहद्भानो । बृहत् । भानो । शवसा । वाजम् । उक्थ्यम् । दधासि । दाशुषे । कवे ॥१८१६॥

Samveda - Mantra Number : 1816
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नेतः परमेश ! (तव) त्वदीयम् (श्रवः) यशः (वयः) ऐश्वर्यञ्च (महि) महत् वर्तते। हे (विभावसो) तेजोधन ! तव (अर्चयः) दीप्तयः (भ्राजन्ते) वह्निसूर्यनक्षत्रादिषु दीप्यन्ते। हे (बृहद्भानो) महातेजस्क ! हे (कवे) क्रान्तदर्शिन् ! त्वम् (दाशुषे) आत्मसमर्पकाय (शवसा) बलेन सह (उक्थ्यम्) प्रशंसनीयम् (वाजम्) आनन्दरूपमैश्वर्यम् (दधासि) प्रयच्छसि ॥१॥२
Essence
परमेश्वरः स्वयं प्रकाशमानः सन्नन्यान् प्रकाशयति, स्वयं बलवान् सन्नन्येभ्यो बलानि प्रयच्छति, स्वयं यशस्वी सन्नन्यान् यशस्विनः करोति, स्वयमानन्दवान् सन्नन्यानानन्दिनः करोति ॥१॥
Subject
तत्राग्निनाम्ना परमात्मनः स्वरूपमुपकारं च वर्णयति।