Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1815

1875 Mantra
Devata- अग्निः Rishi- परुच्छेपो दैवोदासिः Chhand- अत्यष्टिः Swara- गान्धारः
Mantra with Swara
स꣢꣫ हि पु꣣रू꣢ चि꣣दो꣡ज꣢सा वि꣣रु꣡क्म꣢ता꣣ दी꣡द्या꣢नो꣣ भ꣡व꣢ति द्रु꣢ह꣣न्त꣡रः प꣢र꣣शु꣡र्न द्रु꣢꣯हन्त꣣रः꣢ । वी꣣डु꣢ चि꣣द्य꣢स्य꣣ स꣡मृ꣢तौ꣣ श्रु꣢व꣣द्व꣡ने꣢व꣣ य꣢त्स्थि꣣र꣢म् । नि꣣ष्ष꣡ह꣢माणो यमते꣣ ना꣡य꣢ते धन्वा꣣स꣢हा꣣ ना꣡य꣢ते ॥१८१५॥

सः । हि । पु꣣रु꣢ । चि꣣त् । ओ꣡ज꣢꣯सा । वि꣣रु꣡क्म꣢ता । वि꣣ । रु꣡क्म꣢꣯ता । दी꣡द्या꣢꣯नः । भ꣡व꣢꣯ति । द्रु꣣हन्तरः꣢ । द्रु꣣हम् । तरः꣢ । प꣣रशुः꣢ । न । द्रु꣣हन्तरः꣢ । द्रु꣣हम् । तरः꣢ । वी꣣डु꣢ । चि꣣त् । य꣡स्य꣢꣯ । स꣡मृतौ꣢꣯ । सम् । ऋ꣣तौ । श्रु꣡व꣢꣯त् । व꣡ना꣢꣯ । इ꣣व । य꣢त् । स्थि꣣र꣢म् । नि꣣ष्ष꣡ह꣢माणः । निः꣣ । स꣡ह꣢꣯मानः । य꣣मते । न꣢ । अ꣣यते । धन्वास꣡हा꣢ । ध꣣न्व । स꣡हा꣢꣯ । न꣢ । अ꣣यते ॥१८१५॥

Mantra without Swara
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः । वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । निष्षहमाणो यमते नायते धन्वासहा नायते ॥

सः । हि । पुरु । चित् । ओजसा । विरुक्मता । वि । रुक्मता । दीद्यानः । भवति । द्रुहन्तरः । द्रुहम् । तरः । परशुः । न । द्रुहन्तरः । द्रुहम् । तरः । वीडु । चित् । यस्य । समृतौ । सम् । ऋतौ । श्रुवत् । वना । इव । यत् । स्थिरम् । निष्षहमाणः । निः । सहमानः । यमते । न । अयते । धन्वासहा । धन्व । सहा । न । अयते ॥१८१५॥

Samveda - Mantra Number : 1815
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विरुक्मता) दीप्तिमता (ओजसा) प्रतापेन (पुरु चित्) अत्यधिकम् (दीद्यानः) द्योतमानः (स हि) स खलु अग्निः अग्रणीः जीवात्मा (द्रुहन्तरः) द्रुहं द्रोग्धारं शत्रुं कामक्रोधादिकं तरति अतिक्रामति यः तथाविधः (भवति) जायते, (परशुः न) परशुः इव (द्रुहन्तरः) द्रुहं द्रोग्धारं तरति हिनस्ति यः तादृशो भवति, (यस्य) अग्नेः जीवात्मनः (समृतौ) संघट्टे सति (वीडु चित्) बलवदपि, (वना इव) वनमिव अरण्यमिव (यत् स्थिरम्) बद्धमूलं, तदपि (श्रुवत्) शीर्यते स्रवति वा। [शॄ हिंसायाम्, स्रु गतौ वा, छान्दसं रूपम्]। सः (निष्षहमाणः) शत्रून् अभिभवन्, तान् (यमते) यमयते युद्धादुपरतान् करोति। [यमु उपरमे, णेर्लुकि रूपम्।] (न अयते) स्वयं युद्धान्न पलायते, अपितु (धन्वसहा२ न) धानुष्कः इव (अयते) देवासुरसंग्रामं गच्छति ॥३॥३ अत्रोपमालङ्कारः, तिस्र उपमाः। ‘द्रुहन्तरः’, ‘नायते’ अनयोरावृत्तौ यमकम् ॥३॥
Essence
देहधारी जीवात्मा बद्धमूलानप्यान्तरान् बाह्यांश्च सर्वाञ्छत्रूनुन्मूल्य रणकुशलः सेनापतिरिव देवासुरसंग्रामे विजयी भवेत् ॥३॥ अस्मिन् खण्डे परमात्मजीवात्मनोर्विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ जीवात्मनो रणकौशलं वर्णयति।