Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1814

1875 Mantra
Devata- अग्निः Rishi- परुच्छेपो दैवोदासिः Chhand- अत्यष्टिः Swara- गान्धारः
Mantra with Swara
य꣡जि꣢ष्ठं त्वा꣣ य꣡ज꣢माना हुवेम꣣ ज्ये꣢ष्ठ꣣म꣡ङ्गि꣢रसां विप्र꣣ म꣡न्म꣢भि꣣र्वि꣡प्रे꣢भिः शुक्र꣣ म꣡न्म꣢भिः । प꣡रि꣢ज्मानमिव꣣ द्या꣡ꣳ होता꣢꣯रं चर्षणी꣣ना꣢म् । शो꣣चि꣡ष्के꣢शं꣣ वृ꣡ष꣢णं꣣ य꣢मि꣣मा꣢꣫ विशः꣣ प्रा꣡व꣢न्तु जू꣣त꣢ये꣣ वि꣡शः꣢ ॥१८१४॥

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । य꣡ज꣢꣯मानाः । हु꣣वेम । ज्ये꣡ष्ठ꣢꣯म् । अ꣡ङ्गि꣢꣯रसाम् । वि꣣प्र । वि । प्र । म꣡न्म꣢꣯भिः । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । शुक्र । म꣡न्म꣢꣯भिः । प꣡रि꣢꣯ज्मानम् । प꣡रि꣢꣯ । ज्मा꣣नम् । इव । द्या꣢म् । हो꣡ता꣢꣯रम् । च꣣र्षणीना꣢म् । शो꣣चि꣡ष्के꣢शम् । शो꣣चिः꣢ । के꣣शम् । वृ꣡ष꣢꣯णम् । य꣢म् । इ꣣माः꣢ । वि꣡शः꣢꣯ । प्र । अ꣣वन्तु । जूत꣡ये꣢ । वि꣡शः꣢꣯ ॥१८१४॥

Mantra without Swara
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । परिज्मानमिव द्याꣳ होतारं चर्षणीनाम् । शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥

यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । वि । प्र । मन्मभिः । विप्रेभिः । वि । प्रेभिः । शुक्र । मन्मभिः । परिज्मानम् । परि । ज्मानम् । इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिष्केशम् । शोचिः । केशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥१८१४॥

Samveda - Mantra Number : 1814
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विप्र) विशेषेण पूरयितः जगदीश ! (यजमानाः) उपासनायज्ञस्य यष्टारः वयम् (यजिष्ठम्) यष्तृतमम् (अङ्गिरसां ज्येष्ठम्) तपस्विनां श्रेष्ठम् (त्वा) त्वाम् (मन्मभिः) वेदमन्त्रैः (हुवेम) आह्वयेम। हे (शुक्र) तेजस्विन्, पवित्र परमात्मन् ! (मन्मभिः) मननशीलैः (विप्रेभिः) उपासकैः विद्वद्भिः सह त्वां हुवेम। (द्याम्) आकाशम् (परिज्मानम् इव) सूर्यद्वारा परिमिमानमिव, (चर्षणीनाम्) मनुष्याणाम् (होतारम्) सुखप्रदातारम्, (शोचिष्केशम्) शोचिर्भिः प्रकाशमानम्, (वृषणम्) वृष्टिकरम् (यम्) यं त्वाम् (इमाः) एताः (विशः) प्रजाः उपासते, तं त्वाम् (विशः) ताः प्रजाः (जूतये) बलवेगादिप्राप्तये। [‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’। अ० ३।३।९७ इत्यनेनोदात्तः क्तिन् प्रत्ययो धातोर्दीर्घत्वं च निपात्यते।] (प्रावन्तु) प्राप्नुवन्तु ॥२॥२ अत्र ‘परिज्मानमिव द्याम्’ इत्युत्प्रेक्षालङ्कारः, ‘मन्मभिः’ इत्यस्यावृत्तौ यमकम्, ‘विप्र विप्रे’ इत्यत्र छेकानुप्रासः ॥२॥
Essence
विप्रजनैः सह मिलित्वा सामूहिकोपासनया सर्वैः स परमात्मा पूजनीयो यः सृष्टियज्ञस्य सञ्चालको ज्येष्ठः श्रेष्ठस्तेजस्वितमः कामवर्षकश्च वर्तते यश्च सूर्यं पूर्वतः पश्चिमान्तं यात्रां कारयन् तेनाकाशं परिमातीव ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।