Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1812

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- द्विपदा गायत्री Swara- षड्जः
Mantra with Swara
अ꣡सृ꣢ग्रं दे꣣व꣡वी꣢तये वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥१८१२॥

अ꣡सृ꣢꣯ग्रम् । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥१८१२॥

Mantra without Swara
असृग्रं देववीतये वाजयन्तो रथा इव ॥

असृग्रम् । देववीतये । देव । वीतये । वाजयन्तः । रथाः । इव ॥१८१२॥

Samveda - Mantra Number : 1812
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् एतान् ब्रह्मानन्दरूपान् सोमरसान् (देववीतये) दिव्यगुणानां प्राप्तये (असृग्रम्) स्वान्तरात्मनि सृजामि, प्रवाहयामि। [असृजम् इति प्राप्ते ‘बहलुं छन्दसि’। अ० ७।१।८ इत्यनेन रुडागमः, ततः कुत्वम्।] एते (वाजयन्तः) अन्नानि प्रयच्छन्तः (रथाः इव) शकटाः इव (वाजयन्तः) बलानि प्रयच्छन्तः, सन्तीति शेषः ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥
Essence
यथा रथा अन्नाद्यानयनाय साधनतां यान्ति तथा ब्रह्मानन्दरसा अध्यात्मबलादीनां प्राप्तये साधनीभवन्ति ॥३॥ अस्मिन् खण्डे जगदीश्वरस्य ब्रह्मानन्दरसस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि स एव विषय उच्यते।