Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1811

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- द्विपदा गायत्री Swara- षड्जः
Mantra with Swara
ते꣢ सु꣣ता꣡सो꣢ विप꣣श्चि꣡तः꣢ शु꣣क्रा꣢ वा꣣यु꣡म꣢सृक्षत ॥१८११॥

ते । सु꣣ता꣡सः꣢ । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । शु꣣क्राः꣢ । वा꣣यु꣢म् । अ꣣सृक्षत ॥१८११॥

Mantra without Swara
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥

ते । सुतासः । विपश्चितः । विपः । चितः । शुक्राः । वायुम् । असृक्षत ॥१८११॥

Samveda - Mantra Number : 1811
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
 (सुतासः) परमात्मना प्रेरिताः, (विपश्चितः) मेधायुक्ताः (शुक्राः) पवित्राः (ते) प्रसिद्धाः सोमाः ब्रह्मानन्दरसाः (वायुम्) प्राणम् (असृक्षत) ऊर्ध्वं प्रेरयन्ति ॥२॥
Essence
प्राप्ता ब्रह्मानन्दाः योगिनः प्राणानूर्ध्वं प्रेरयन्तस्तस्मै निःश्रेयसं प्रयच्छन्ति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।