Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 181

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ तू꣢꣯ न इन्द्र वृत्रहन्न꣣स्मा꣢क꣣म꣢र्ध꣣मा꣡ ग꣢हि । म꣣हा꣢न्म꣣ही꣡भि꣢रू꣣ति꣡भिः꣢ ॥१८१॥

आ꣢ । तु । नः꣣ । इन्द्र । वृत्रहन् । वृत्र । हन् । अस्मा꣡क꣢म् । अ꣡र्ध꣢꣯म् । आ । ग꣣हि । महा꣢न् । म꣣ही꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥१८१॥

Mantra without Swara
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि । महान्महीभिरूतिभिः ॥

आ । तु । नः । इन्द्र । वृत्रहन् । वृत्र । हन् । अस्माकम् । अर्धम् । आ । गहि । महान् । महीभिः । ऊतिभिः ॥१८१॥

Samveda - Mantra Number : 181
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृत्रहन्) अविद्याविघ्नदुःखपापादीनां हन्तः (इन्द्र) परमात्मन्, राजन्, आचार्य वा ! त्वम् (तु) क्षिप्रम्। संहितायाम् ऋचितुनुघ०।’ अ० ६।३।१३३ इति दीर्घः। (नः) अस्मान् (आ) आगहि, आगच्छ। त्वम् (अस्माकम्) स्तोतॄणाम्, शिष्याणां वा (अर्धम्२) अपूर्ण जीवनम् (आ गहि) आगच्छ। आङ्पूर्वाद् गम्लृ गतौ धातोर्लोटि छान्दसं रूपम्। बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक्, धातोर्मकारलोपः, सेर्हिः। त्वम् (महीभिः) महतीभिः (ऊतिभिः) रक्षाभिः (महान्) अतिशयमहिमोपेतः, असि इति शेषः ॥७॥३ अत्र श्लेषालङ्कारः। महा, मही इति छेकानुप्रासः ॥७॥
Essence
अपूर्णो बहुच्छिद्रान्वितो विविधविघ्नप्रताडितो मनुष्यः स्वजीवने परमात्मनो नृपतेर्गुरोर्वा साहाय्येनैवोन्नतिं कर्तुं शक्नोति ॥७॥
Subject
अथ परमात्मा, राजा विद्वानाचार्यश्चाहूयते।
Footnote
१. ऋ० ४।३२।१, य० ३३।६५। २. अर्धं वेद्याख्यं स्थानम्—इति वि०। समीपम्—इति भ०, सा०। ३. एष मन्त्रो दयानन्दर्षिणा यजुर्भाष्ये च राजप्रजापक्षे व्याख्यातः।