Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1809

1875 Mantra
Devata- इन्द्रः Rishi- नीपातिथिः काण्वः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣢ त्वा꣣ ग्रा꣢वा꣣ व꣡द꣢न्नि꣣ह꣢ सो꣣मी꣡ घोषे꣢꣯ण वक्षतु । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०९॥

आ꣢ । त्वा꣣ । ग्रा꣡वा꣢꣯ । व꣡द꣢꣯न् । इ꣣ह꣢ । सो꣣मी꣢ । घो꣡षे꣢꣯ण । व꣣क्षतु । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०९॥

Mantra without Swara
आ त्वा ग्रावा वदन्निह सोमी घोषेण वक्षतु । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

आ । त्वा । ग्रावा । वदन् । इह । सोमी । घोषेण । वक्षतु । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥१८०९॥

Samveda - Mantra Number : 1809
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जगदीश्वर ! (इह) अस्यां देहपुरि (सोमी) श्रद्धारसमयः (ग्रावा) अर्चको जीवात्मा। [गृणातिः अर्चतिकर्मा। निघं० ३।१४।] (वदन्) स्तोत्राणि उच्चारयन् (घोषेण) स्वागतशब्देन (त्वा) त्वाम् (आ वक्षतु) आवहतु। [वहतेर्लोटि विकरणव्यत्ययेन सिप्।] हे (दिवावसो) दीप्तिधन परमात्मन् ! (दिवः) द्योतमानायाः देहपुर्याः (शासतः) शासकस्य (अमुष्य) अस्य जीवात्मनः (दिवम्) द्युतिमयीं देहपुरीम्, त्वम् (यय) आगच्छ ॥३॥
Essence
यो हार्दिकैः स्वागतवचोभिः परमात्मानमाह्वयति तत्प्रार्थनां सोऽवश्यं शृणोति ॥३॥
Subject
अथ पुनरपि परमेश्वर आहूयते।