Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1808

1875 Mantra
Devata- इन्द्रः Rishi- नीपातिथिः काण्वः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣢त्रा꣣ वि꣢ ने꣣मि꣡रे꣢षा꣣मु꣢रां꣣ न꣡ धू꣢नुते꣣ वृ꣡कः꣢ । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०८॥

अ꣡त्र꣢꣯ । वि । ने꣣मिः꣢ । ए꣣षाम् । उ꣡रा꣢꣯म् । न । धू꣡नुते । वृ꣡कः꣢꣯ । दि꣡वः꣢꣯ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०८॥

Mantra without Swara
अत्रा वि नेमिरेषामुरां न धूनुते वृकः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । वृकः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥१८०८॥

Samveda - Mantra Number : 1808
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृकः) आदित्यः (उरां न) यथा तमसा आच्छादिकां रात्रिम् (वि धूनुते) विकम्पयति, तथा (अत्र) अस्या देहपुर्याम् (एषाम्) एतेषां मरुतां प्राणानाम् (नेमिः) नेता जीवात्मा (उराम्) आच्छादिकाम् अविद्यारात्रिम् (वि धूनुते) विकम्पयति। तस्याः (दिवः) देहपुर्याः (शासतः) शासकस्य (अमुष्य) अस्य जीवात्मनः (दिवम्) द्योतमानां देहपुरीम्, हे (दिवावसो) दीप्तिधन परमात्मन् ! त्वम् (यय) आयाहि। [वृकः, ‘आदित्योऽपि वृक उच्यते, यदावृङ्क्ते।’ निरु० ५।२१। उराम्, ऊर्णोति तमसा आच्छादयति भुवम् आकाशं च या सा उरा रात्रिः। नेमिः, णीञ् प्रापणे, ‘नियो मिः’ उ० ४।४४ इति मिः प्रत्ययः। नयतीति नेमिः नेता] ॥२॥ अत्रोपमालङ्कारः। दिवो, दिवं, दिवा इत्यत्र वृत्त्यनुप्रासः ॥२॥
Essence
सूर्य इव तेजस्वी जीवात्मा यत्र स्थितः सन्नज्ञानपापादिरात्रिं विदृणाति सा देहपुरी नूनं प्रशंसनीया परमात्मनिवासयोग्या च ॥२॥
Subject
अथ पुनरप्युपासकेन परमेश्वरो निमन्त्र्यते।