Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1806

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
मा꣡ न꣢ इन्द्र पीय꣣त्न꣢वे꣣ मा꣡ शर्ध꣢꣯ते꣣ प꣡रा꣢ दाः । शि꣡क्षा꣢ शचीवः꣣ श꣡ची꣢भिः ॥१८०६॥

मा꣢ । नः꣣ । इन्द्र । पीयत्न꣡वे꣢ । मा । श꣡र्ध꣢꣯ते । प꣡रा꣢꣯ । दाः꣣ । शि꣡क्ष꣢꣯ । श꣣चीवः । श꣡ची꣢꣯भिः ॥१८०६॥

Mantra without Swara
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । शिक्षा शचीवः शचीभिः ॥

मा । नः । इन्द्र । पीयत्नवे । मा । शर्धते । परा । दाः । शिक्ष । शचीवः । शचीभिः ॥१८०६॥

Samveda - Mantra Number : 1806
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर ! त्वम् (नः) अस्मान् (मा) नैव (पीयत्नवे) हिंसकाय कामक्रोधलोभादिकाय। [पीयतिर्हिंसाकर्मा। निरु० ४।२५।] (मा) नापि च (शर्धते) बलवते कस्मैचिन्मानवाय शत्रवे। [शर्ध इति बलनाम। निघं० २।९।] (परा दाः) परित्याक्षीः। हे (शचीवः) शक्तिशालिन्, त्वम् (शचीभिः) स्वकीयाभिः शक्तिभिः (शिक्ष२) अस्मान् शक्तान् कर्तुमिच्छ। [शक्लृ शक्तौ, णिचि सन्नन्तः, लोटि रूपम्] ॥३॥ अत्र शकारस्यानेकश आवृत्तौ वृत्त्यनुप्रासः, ‘शची’ इत्यस्य द्विरुक्तौ लाटानुप्रासः ॥३॥
Essence
ये परमात्मनि श्रद्धावन्तो भवन्ति तान् न हिंसका हिंसितुं, न पराजेतारः पराजेतुं शक्नुवन्ति। परमात्म-प्रेरणया शक्तिमन्तो मेधाविनः कर्मयोगिनश्च सन्तस्ते सर्वा अपि विपदो विनिघ्नन्ति ॥३॥
Subject
अथ जगदीश्वरं प्रार्थयते।