Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1805

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣क्थं꣢ च꣣ न꣢ श꣣स्य꣡मा꣢नं꣣ ना꣡गो꣢ र꣣यि꣡रा चि꣢꣯केत । न꣡ गा꣢य꣣त्रं꣢ गी꣣य꣡मा꣢नम् ॥१८०५॥

उ꣣क्थ꣢म् । च꣣ । न꣢ । श꣣स्य꣢मा꣢नम् । न । अ꣡गोः꣢꣯ । अ । गोः꣣ । रयिः꣢ । आ । चि꣣केत । न꣢ । गा꣣य꣢त्रम् । गी꣣य꣡मा꣢नम् ॥१८०५॥

Mantra without Swara
उक्थं च न शस्यमानं नागो रयिरा चिकेत । न गायत्रं गीयमानम् ॥

उक्थम् । च । न । शस्यमानम् । न । अगोः । अ । गोः । रयिः । आ । चिकेत । न । गायत्रम् । गीयमानम् ॥१८०५॥

Samveda - Mantra Number : 1805
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अगोः) न विद्यते गौः सर्वगतः इन्द्रो जगदीश्वरो यस्य स अगुः तस्य अगोः इन्द्रेऽश्रद्दधानस्य जनस्य (न) नैव (शस्यमानम्) उच्यमानम् (उक्थम्) स्तोत्रम्, (न) नैव (रयिः) दीयमानं धनम्, (न) नापि च (गीयमानम्) गानविषयीक्रियमाणम् (गायत्रम्) गायत्रनामकं सामगानम् (आचिकेत) आचिकिते आद्रियते केनापि ॥२॥
Essence
परमेश्वरेऽश्रद्दधानस्य जनस्य स्तोत्रपाठधनदानसामगानादिकं सर्वं निष्फलं जायते, यतः स केनचित् स्वार्थेनैव प्रेरितस्तानि कृत्यानि करोति। सर्वाणि सत्कर्माणीश्वरार्पणबुद्ध्यैव शोभन्ते ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके २२५ क्रमाङ्के व्याख्यातपूर्वा। इन्द्रेऽश्रद्दधानस्य का गतिर्भवतीत्युच्यते।