Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1804

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
रे꣣वा꣢꣫ꣳ इद्रे꣣व꣡त꣢ स्तो꣣ता꣡ स्यात् त्वाव꣢꣯तो म꣣घो꣡नः꣢ । प्रे꣡दु꣢ हरिवः सु꣣त꣡स्य꣢ ॥१८०४॥

रे꣣वा꣢न् । इत् । रे꣣व꣡तः꣢ । स्तो꣣ता꣢ । स्यात् । त्वा꣡व꣢꣯तः । म꣣घो꣢नः꣢ । प्र । इत् । उ꣣ । हरिवः । सुत꣡स्य꣢ ॥१८०४॥

Mantra without Swara
रेवाꣳ इद्रेवत स्तोता स्यात् त्वावतो मघोनः । प्रेदु हरिवः सुतस्य ॥

रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वावतः । मघोनः । प्र । इत् । उ । हरिवः । सुतस्य ॥१८०४॥

Samveda - Mantra Number : 1804
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हरिवः) दोषहरणगुणोपेत इन्द्र जगदीश्वर ! (सुतस्य) अन्तरात्मनि प्रकटीकृतस्य (रेवतः) ऐश्वर्यवतः (मघोनः) दानवतः (त्वावतः) त्वत्सदृशस्य तव (स्तोता) उपासकः (रेवान् इत्) ऐश्वर्यवानेव (इत् उ) अवश्यमेव ( प्र स्यात्) प्रजायेत। [हरिवः, हरिवन् ‘मतुवसो रु सम्बुद्धौ छन्दसि’ अ० ८।३।१ इति नकारस्य रुत्वम्। रेवतः, ‘रयेर्मतौ बहुलम्’ वा० ६।१।३४ इति रयेर्यकारस्य सम्प्रसारणम्। मघोनः, मंहतिर्दानकर्मा। निरु० १।६। त्वावतः, ‘युष्यदस्मदोः सादृश्ये वतुब् वाच्यः’ वा० ५।१।६१ इति सादृश्यार्थे वतुप्] ॥१॥ ‘त्वावतः त्वत्सदृशस्य तव’ इत्यत्रानन्वयालङ्कारः। ‘रेवाँ इद् रेवतः स्तोता’ इत्यत्र समालङ्कारो ध्वन्यते ॥१॥
Essence
ऐश्वर्यवान् जगदीश्वरः स्वोपासकमप्यैश्वर्यवन्तं करोति ॥१॥
Subject
तत्रादौ परमात्मानं प्रार्थयते।